________________ द्वितीयः परिच्छेदः 233 ईश्वरे सर्वज्ञात्वसिद्धिनिरूपणम् / वस्तुतस्तु, अनुमानात् कत्रैकत्वसिद्धावपि नेश्वरसिद्धिः, ततः सर्वज्ञत्वसर्वशक्तित्वादेरसिद्धः। नहि कार्याप्रयोजको धर्मः कार्यलिङ्गन सिद्धयति / उपस्थितिमात्रेण तसिद्धौ धूमाद् रासभादेरपि सिद्धिप्रसङ्गात्। ___ अस्तु वा श्रुतिबाह्यस्य कल्पितस्य यथा कथञ्चिदनुमानात् सिद्धिः। श्रुतिप्रतिपाद्यस्य वास्तवेश्वरस्य न कार्यलिङ्गात् सिद्धिः। अद्वितीयचैतन्यानन्दात्मवपुषि ब्रह्मणि कार्यलिङ्गात् तथा बोधानुदयात्। नहि कार्यलिङ्ग ब्राह्मणोऽद्वितीयचंतन्यानन्दाभेदं विनाऽनुपपन्नं उदासीनत्वाच्च तस्य न कार्यलिङ्गात् सिद्धिः “न तस्य कार्यं करणं च विद्यते" "तदेतद् ब्रह्मापूर्वमनपरमनन्तरमित्यादिश्रुतिभ्यो ब्रह्मण औदासीन्यावगमात् / अत एव सादृश्यज्ञानजन्योपमितिरपि न ब्रह्मविषया, सकलधर्मातीतस्य तस्य सादृश्याप्रतियोगित्वात् / “न ततसमश्चाभ्यधिकश्च दृश्यत" इत्यादि श्रुतेश्च / उपमितेःनियतविषयत्वाच्च / उदासीनत्वादेवार्थापत्तिरपि न तत्र मानम् / अनुपलब्धिस्त्वभावमात्रविषया न सद्रूपब्रह्मविषया। नन्वेवमपि पौरुषेयवाक्यादपि तथाविधब्रह्मप्रतिपत्तेर्न तदुपनिषदेकगम्य परित्यजति-वस्तुत इति। तदेकत्वतत्सर्वज्ञत्वादेरपि श्रुतित उपस्थितत्वादनुमानगोचरतेत्याशङ्कयाह-उपस्थिती ते / उक्तबाधकतर्कानवतारदशायां कार्यत्वादिलिङ्गः प्रत्यग्भिन्नसगुणकेश्वरसिद्धिमङ्गीकृत्यापि न श्रुतितात्पर्यगम्येश्वरोऽनुमानविषय इत्याह-अस्तुवेति / तथेति / अद्वितीयचिदानन्दरूपं ब्रह्मेत्येवमाकारबोधानुदयादित्यर्थः / ब्रह्मणो वस्तुतः कारणत्वाभावाच्च न कार्यलिङ्गम्, तत्र मानमित्याह-उदासीनत्वादिति / औदासीन्ये मानमाह-न तस्येति / कार्योत्पत्त्यनुकूलो व्यापारः करणपदार्थः, न विद्यते पूर्वं कारणमस्येत्यपूर्वम् / न विद्यते परं कार्यमस्येत्यनपरम्। न विद्यतेन्तरं भेदोऽस्येत्यनन्तरम् / श्रुतिसिद्धब्रह्मणोऽद्वितीयचिदानन्दरूपत्वादेवोपमानगोचरतापि नेत्याह-अत एवेति / मीमांसकमते सादृश्यस्यैवोपमितिगोचरत्वात् तार्किकमते वाच्यवाचकसंबन्धस्यैव तद्गोचरत्वात्. ब्रह्मणो न तद्विषयतेत्याह- उपमितेरिति / ब्रह्मण्यर्थापत्तिरपि न मानमित्याह - उदासीनत्वादिति / अनुपपन्नार्थदर्शनप्रसूतार्थापत्तेः तदुपपादक एव गोचरः ब्रह्म चोदासीनत्वान्न कस्याप्युपपादकमिति न तद्गोचरतेत्थर्थः / षष्ठप्रमाणस्यापि भावविरहैकस्वभावाभावमात्रविषयत्वान्न तस्यानन्दादिरूपे प्रामाण्यमित्याह-अनुपलब्धिरिति / गुरावाप्तत्वनिश्चयवतः तद्वाक्यादपि ब्रह्मप्रतिपत्तेर्न . तस्योपनिषदेकगम्यतेति शङ्कते-नन्विति / पौरुषेयवाक्यस्य मूलप्रमाणं विना प्रामाण्या