SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ 232 सटीकाद्वैतदीपिकायाम् अथ कर्तृभेदाभावः / न, ऐकात्म्यप्रसङ्गात् / अथ क्षितिकर्तृप्रतियोगिकभेदा. भावः तहि तदनुमितिपूर्व क्षितिकर्तृतभेदानुपस्थितेलाघवेनापि तदभावस्थोपनेतुम. शक्यत्वात्, स नानुमितिगोचरः तदनेकत्वेऽपि स्वस्मिन् स्वप्रतियोगिकभेदाभावसत्त्वात् / न च यावदभावो विवक्षितः तस्य तव मते बाधात् / एवं घटत्वेन कल्पान्तरघटस्य कुलालकर्तृत्वानुमाने तदेकत्वसिद्धिप्रसङ्गाच्च / तस्मान्न कार्यत्वलिङ्गमपीश्वरे मानम् / वाक्यत्वादिहेतवोऽप्येवं निराकार्याः। तस्मानानुमानमीश्वरे प्रमाणम, किन्तु श्रुत्युपस्थापितक्षित्यादिजनकमात्रमुपस्थापयत तद्गोचरासंभावनानिवर्तनद्वारा श्रुतावुपकरीति ततः तत् तत्र विषयपरिशोधकतर्कमानं क्षितिजनकस्वरूपविशेषसिद्धिस्तूपनिषद्भ्य एवेत्यौपनिषदं ब्रह्म। उपनिषदुपजीव्यनुमानेन ईश्वरसिद्धयङ्गीकार: ननु मा भूत स्वतन्त्रप्रमाणमीश्वरे अनुमानं, श्रुत्यवगतकāकत्वादेरनुमितिदशायां लाघवेनोपस्थितेरनुमितिगोचरः कर्तेक एवेत्यनुमानं तत्र प्रमाणमिति चेत्, अस्त्वेवम् नयुपनिषदुपजीवकानुमानगम्यत्वे ब्रह्मण औपनिषदत्वं विहन्यते उपनिषद्भिरेव भानाभावकृततदसत्वशङ्कानिवृत्तः परमते सुखलिङ्गानुमेयस्यापि धर्मस्य चोदनालक्षणत्वात् / लाघवानुगृहीतानुमानात् कृतिकर्तुरेकत्वमपि सिद्धयतीति परैरुच्यते, तत्रैकत्वं किमेकत्वसंख्या, कतृ भेदाभावो वा क्षितिकर्तुर्भेदाभावो वा तत्प्रतियोगिकयावद्भेदाभावो वा / न सर्वथाऽपीति क्रमेण दूषयति-क्षितिकāकत्वमित्यादिना / तव मते बाधादिति / क्षितिकतृ प्रतियोगिकभेदस्यैकत्वेन तत्र यावत्पदार्थस्यानेकस्याभावादित्यर्थः / लाघवतर्कानुग्रहात्, तदेकत्वसिद्धिरप्ययुक्ता अतिप्रसङ्गादित्याह-घटत्वेनेति / व्याप्त्यादेरभावात् कार्यत्वहेतुर्नेश्वरसाधक इत्युपसंहरति-तस्मादिति / वेदः सकर्तृकः, वाक्यत्वात् कालिदासवाक्यवदित्यनुमानेऽप्युक्तदोषजातमतिदिशति-वाक्यत्वादीति / ज्ञानं विनापि नित्यकृतित एव वेदरचनादेरुपपत्तेः शरीरादिवत् तदर्थज्ञानं विना वर्णपदज्ञानमात्रादपि तद्रचनोपपत्तेश्च न ततः सर्वज्ञेश्वरसिद्धिरिति भावः / अनुमानस्य स्वत ईश्वरासावकत्वान्न तत् तत्र मानम् / न चैतावता तदानर्थक्यम्। श्रुतिप्रतिपन्नेश्वरे असंभावनादिनिरासाय तर्कविधयोपयुक्तत्वाद्, ईश्वरे प्रमाणं तूपनिषदेवेत्याह-तस्मादित्यादिना / श्रुतिप्रवत्तेः पूर्वमनुमानस्येश्वरासाधकत्वेऽपि तदनन्तर तस्य तत्साधकत्वात् तत्र प्रामाण्यमिति शङ्कते-नन्विति / श्रुत्युपजीवकानुमानस्य तदर्थे प्रवृत्तिमङ्गीकृत्य तस्य सापेक्षानुवादत्वात् तद्गोचरस्य ब्रह्मणो नौपनिषदत्वक्षतिरिति सदृष्टान्तमाह-अस्त्वेवमिति / अङ्गीकारं
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy