SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 231 हेतोः पो व्यापकं विनाऽनुपपत्तिः / अतः तेन पक्षव्यक्तौ कृतिगोचरत्वमात्रं सिद्धयति न तु तदतिरिक्तेऽपि, तेन विनाऽनुपपत्यभावात् अदृष्टविशेषादुत्पद्यमानस्य नित्यस्य वा प्रयत्नस्य पक्षमात्रगोचरत्वोपपत्तेः। ननु कृतौ जन्यत्वमसर्व विषयत्वप्रयोजकम्, तन्नित्याद् व्यावर्तमानमसर्वविषयत्वमपि व्यावर्तयतीति चेत् ? न, लाघवेन कृतित्वमात्रस्यैव तत्प्रयोजकत्वात् / अथ जनकज्ञानसमानविषयत्वादसर्वविषयज्ञानजन्यकृतेरसर्व विषयत्वं नित्यकृतेः तदभावान्न तथेति चेत् ? न, जीवनयोनिप्रयत्नस्यासर्वविषयज्ञानाजन्यत्वेऽप्यसर्वविषयत्ववत् क्षितिजनककृतेरपि तदुपपत्तौ गौरवेण पक्षतदतिरिक्तविषयत्वकल्पनायोगात; कार्यांनुसारेण कृतिविषयताप्रयोजकस्वरूपसंबन्धस्य तावन्मात्र एव कल्पनासंभवात्; अन्यविषयत्वकल्पनायां प्रमाणाभावात् / कृतेः कार्यमात्राहेतुत्योपपादनम् / चेष्टामात्रे हेतुत्वात् किञ्च कृतिरपि न कार्यमानहेतुः स्वोत्कर्षानुविधाय्युत्कर्षचेष्टायामेव तस्या हेतुत्वात् / न चैवं दण्डादेरपि घटाद्यकारणत्वप्रसङ्गः, इष्टत्वात् / तत्र तथिप्रवृत्तेरन्यथापि संभवात् / क्षितिकर्बकत्वमपि यद्यकत्वसंख्या तदा तत्र न निवार्यते, नानात्वेऽपि तदविरोधात् / नित्यस्य वेत्यङ्गीकृत्योक्तम् -नित्यकृतावसविषयत्वव्यापकाभावात् सर्वविषयत्वसिद्धिरित्याशङ्कते-नन्विति / किं जन्यत्वमेव असर्वविषयत्वप्रयोजकमुत जन्यकृतित्वं वा? नाद्यः, अतिप्रसङ्गादित्यभिप्रेत्य न द्वितीय इत्याह-न लाघवेनेति / जन्यकृतिविषयत्वस्य जनकज्ञानविषयत्वप्रयुक्तत्वात्, जनकज्ञानस्यासर्वविषयत्वेन तज्जन्यकृतेरप्यसर्वविषयत्वं युक्तम्, नित्यकृतेः तदभावात् सर्वविषयत्वमिति शङ्कते--अथेति / असर्वविषयज्ञानाजन्यत्वेन न सर्वविषयत्वसिद्धिः जीवनयोनिप्रयत्ने व्यभिचारादन्यथासिद्धकार्यविषयत्वकल्पनागौरवाच्चेति दूषयति--न जीबनेति / अस्मदादिकृत्ययोग्यस्यापि ईश्वरकृतिविषयत्वात् / ___ तस्याः सर्वविषयत्वे त किञ्चिद् बाधकमस्तीत्याशङ्कय तत्र साधकमपि किञ्चिनेति गौरवमेव वाधकमित्याह-कार्येति / ईश्वरकृतिमङ्गीकृत्य तस्या नित्यत्वादिकमनुमानान्न सिद्धयतीत्याह-किं चेति / चेष्टायामेवेति / __तथा च क्षित्यादौ शरीरव्यापाररूपचेष्टायाः अकारणत्वाग्न तद्धतुतयाऽपीश्वरकृतिसिद्धिरिति भावः। एवं तहि दण्डादिरपि चक्रभ्रमणादावेव हेतुर्न घटादाविति प्रसज्येतेत्याशङ्कय ष्टापत्तिमाह-न चैवमिति / तहि घटार्थिनः कथं दण्डादौ प्रवृत्तिरित्याशङ्कय बुभुक्षितस्य पाकादाविव तदुपपत्तिरित्याह-तत्रेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy