________________ 230 सटीकाद्वैतदीपिकायाम् कार्यत्वलिङ्गादीश्वरसिद्धिनिरासः। अस्तु तहि कार्यत्वलिङ्गान्नित्यकृतिमत एव सिद्धिरिति चेत् ? न, एवमपीश्वरस्य तदगोचरत्वात् सर्वज्ञस्यैव श्रुत्या औपनिषदत्वोक्तेः। किञ्च पक्षधर्मताबललभ्यक्षितिगोचरकृतौ कृतित्वसामानाधिकरण्येन क्लुप्तत्वात्, प्रथमोपस्थितेश्चानुमितिरनित्यत्वमेव विषयीकुर्यात्, न तु नित्यत्वं तस्य कस्याञ्चिदप्यक्लृप्ततया प्रथममनुपस्थितेः। क्लृप्तमुपस्थितं च परित्यज्यानुपस्थिताक्लृप्तकल्पने गौरवात्। अतः कृतिकारणतया जीवनयोनिप्रयत्न इवादृष्टमात्रं कल्प्यते न ज्ञानादिकमपि / तच्च भोक्तसमवेतमिति न तदर्थमपि तदज्ञानं कल्पनीयम, ब्यधिकरणस्याप्यदृष्टस्य तव मते वेदकर्तुस्तदर्थं शरीरसंयोगादिहेतुत्वात् / ज्ञानासहकृतादृष्टजन्यस्वादेव तस्याः परमाण्वादिदिषयत्वं न विहन्यते। क्षित्यादिगोचरकृतेः सर्वगोचरत्वे नानुमानप्रामाण्यम् / एवं क्षितिगोचरकृतेः सर्वगोचरत्वमपि नानुमानात् सिद्धयति / तस्य व्याप्तिपक्षधर्मतान्यतरालभ्यत्वात् / पक्षधर्मताबलं हि व्याप्तिमत्तया परिदृश्यमान भावात् तत्र दुःखादि बाधितमिति वाच्यम्, ज्ञानादिवत्तस्यापि नित्यत्वेन पुण्यपापाद्यनपेक्षणादिति भावः / कार्यत्वहेतुना जन्यज्ञानादेरसिद्धावपि नित्यकृतिमत्त्वेनेश्वरस्य सिद्धत्वात् तस्य कथ पनिषदेकगम्यत्वमिति शङ्कते --अस्त्विति / नित्यकृतिमतः सिद्धावपि सर्वज्ञतया श्रुत्युक्तेश्वरस्यानुमानादसिद्धेर्न तस्य तद्गोचरतेत्याह--एवमपीति / कार्यत्वहेतुना क्षित्यादिजनककृतेनित्यत्वसिद्धिमङ्गीकृत्येदमुक्तम्, सम्प्रति तदेव न सिद्धयतीत्याह--किञ्चति / ईश्वरे कृतिकारणशरीरादेरभावात् तत्रानित्यकृतिर्बाधितेत्याशक्याह--अत इति / यथा जोवनयोनिप्रयत्नः प्रयत्नान्तरे क्लुप्तकारणं विनाप्यदृष्टादेव जायते एवमीश्वरकृतिरपि ज्ञानादिकं च विना जायतामित्यर्थः। न च लाघवेन कृत्येकत्वसिद्धौ सा नित्येति वाच्यम्, या कृतिः सा जन्या विनाशवती चेत्याद्यनेकव्याप्तिविरोधेन लाघवानवतारादिति भावः। तहीश्वरेऽदृष्टहेतुतया ज्ञानमावश्यकमित्यत आह-तच्चेति / भोक्त गतादृष्टस्य व्यधिकरणस्य कथमीश्वरगतकृतिहेतुत्वमित्याशङ क्याह- ब्यधिकरणस्येति / ईश्वरकृतेरदृष्टजन्यत्वेऽस्मदादिकृतिवदतीन्द्रियविषयत्वानुपपत्तिरित्यत आह-ज्ञानासहकृतेति / ज्ञानजन्यकृतेस्तत्समानविषयत्वान्नानीन्द्रियविषयत्वमीश्वरकृतेस्तदजन्यत्वादतीन्द्रियविषयत्वोपपत्तिरिति भावः // क्षित्यादिजनककृतेनित्यत्ववत् सर्वगोचरत्वमपि पराभिमतमनुमानान्न सिद्धयतीत्याह--एवमि त / पक्षधर्मताबलादेवेश्वरकृतेः सर्वविषयत्वलाभ इत्याशङ्कय पक्षधर्मताबलशब्दार्थ प्रदर्शयन तस्या न पक्षातिरिक्तविषयत्वसिद्धिरित्याह-पक्षधर्मतेति /