SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 229 ग्राह्येति तयोरवश्यं प्रथमोपस्थितौ तत्रैव प्रथमं व्याप्तिग्रहादिति / मैवम्, लाघवेन कृतिविषयत्वे ज्ञानविषयत्वमेव व्यापकम्, न तु तत्समानाधिकरणज्ञानविषयत्वम् / अनागतगोचरसाक्षात्कारहेतुप्रत्यासत्यजन्यप्रत्यक्षविषयत्वं वा गौरवात् / ज्ञानविषयत्वं च व्यधिकरणज्ञानविषयत्व नादायापीति न क्षितिकर्तरि ज्ञानसिद्धिः। ननु यज्ञदत्तप्रत्यक्षतन्त्वादौन देवदत्तकतिविषयत्वं देवदत्तानुमितपरमाण्वादी म तस्यापि कृतिरिति समानाधिकरणप्रत्यक्षविषयत्वमेव कृतिविषयत्वप्रयोजकम् / न च तत्र कृतिविरहादेव तद्विषयत्वविरहः। अन्यगोचरतदीयकृतेः सत्वादिति चेत् ? ___म, समानाधिकरणप्रत्यक्षविषयत्वस्य कृतिविषयत्वप्रयोजकत्वेऽतिप्रसङ्गात् स्वजनकज्ञनविषयत्वमेव प्रयोजकम्, अतोऽन्यकृतिर्न घटप्रत्यक्षजन्या। न वा घटस्तज्जनकप्रत्यक्षविषय इति न तस्या घटविषयत्वम् / क्षितिजनककृतिविषयत्वे तु न तत्प्रयोजकं तस्यानित्यतया तद्विषयस्य तज्जनकप्रत्यक्षविषयत्वासंभवात् / तथा च यत्सामान्ये यत्सामान्यं तद्विशेषे तद्विशेषः प्रयोजक इति अनित्यकृतिविषयत्व एव तत्प्रयोजकम्, तव मते तत्कृतिविषयस्य तज्ज्ञानविषयत्वादिवत् केवलान्वयितया नियामकानपेक्षत्वात् प्रयोजककल्पनाया अदृष्टार्थत्वापाताच्च / कृत्या समानाधिकरणज्ञानानुमाने कृत्याश्रयस्य दुःखाविकमपि स्यात् / दूषयति-मैवमिति / पराभिमतं गौरवान्न व्यापकमित्याह-न त्विति / एवमपि नित्यकृतिगोचरविषयकज्ञानं क्षितिकर्तृगतमेव सिद्धयतीत्यत आह-ज्ञानविषयत्वं चेति / कृतिसमानाधिकरणप्रत्यक्षविषयत्वरहितस्य कृतिविषयत्वाभावात् कृतिविषयत्वे तादृशप्रत्यक्षविषयत्वं प्रयोजकमिति शकते-नन्विति / यज्ञदत्तप्रत्यक्षतन्त्वादेर्देवदत्तकृत्यभावादेव तद्विषयत्वविरहो न तु तत्समानाधिकरणज्ञानविषयत्वाभावादित्याशङ्कक्याहन च तत्रेति / समानाधिकरणप्रत्यक्षविषयस्यापि घटादेस्तन्तुगोचरकृत्यविषयत्वान्नैतदपि प्रयोजकम् किन्तु कृतिजनकज्ञानविषयत्वमेव तद्विषयत्वे प्रयोजकमत्र च नातिप्रसङ्ग इति दूषयति-न समानेति / एतच्चानित्यकृतिविषयत्वं प्रत्येव प्रयोजकं नित्यकृतिविषयत्वस्यासंभावितत्वात्। कृतिविषयत्वमात्रे तु ज्ञानविषयत्वमेव प्रयोजकमित्यभिप्रेत्याह - क्षितिजन केति / किञ्च परमते नित्यकृतेः सर्वविषयत्वेन कृतिविषयत्वस्य प्रमेयत्वादिवत् केवलान्वयित्वात् प्रयोजकानपेक्षणात् तद्विचारो व्यर्थ इत्याह--न वेति / नित्या कृतिः ज्ञानेच्छासमानाधिकरणा कृतित्वादित्यनुमानादीश्वरे ज्ञानादिसिद्धिरित्याशङक्याभाससाम्येन दूषयति--कृत्येति / न चेश्वरे पुण्यपापादेर
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy