SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ 628 सटीकाद्वैतदीपिकायाम् करणज्ञानविषयत्वमिति चेत् ? न, स्वसमानाधिकरणानित्यज्ञानसमानविषयत्वस्य स्वसमानाधिकरणज्ञानसमानविषयानित्यकृतित्वस्य वा तत्कार्यतावच्छेदकत्वात् / न चवमनित्यकृतिविषयत्वमेव ज्ञानविषयत्वव्याप्यमिति वाच्यम; लाघवेन कृतिविषयत्वस्यव ज्ञान विषयत्वव्याप्यत्वात् / न चैवमलौकिकज्ञानकल्पनागौरवम्; तस्य फलमुखतयाऽदोषत्वात् / जगत्कर्तरि नित्यज्ञानसाधनखण्डनम् / अर्थवं कृतिविषयत्वेऽनित्यज्ञानसमानविषयत्वमपि व्यापकं स्यादिति चेत ? न, गौरवेण तस्याव्यापकत्वात् / नन्वेवं कृतेः स्वसमानाधिकरणज्ञानसमानविषयत्वमेव कार्यतावच्छेदकम, न तु तादशानित्यज्ञानसमानविषयत्वादि गौरवादिति चेत् ? न, कृतिकार्यतापि हि कतिविषयत्वं ज्ञानविषयत्वं चोपस्थायव नन्विदं कृतौ ज्ञानादिकार्यतावच्छेदकतया तद्व्याप्यं नित्यकृतो तन्वृित्तौ निवर्तते ततश्च न तदाश्रये ज्ञानादिसिद्धिरिति शङ्कते--नन्विति / ज्ञानसमानाधिकरणत्वस्य तत्समानविषयत्वस्य च कृतौ कार्यतावच्छेकत्वं व्यतिरेकमुखेनोपपादयति-एकविषयादिति / स्वसमानविषयस्वसमानाधिकरणानित्यकृतेरेव कार्यतादर्शनात् तादृशानित्यज्ञानसमानविषयत्वादिकमपि कार्यतावच्छेदकं ततश्च नित्यकृतेरनित्यज्ञानसमानाधिकरणत्वाभावेऽपि पूर्वोक्तरीत्या ज्ञानसमानाधिकरणत्वमावश्यकमिति परिहरति--न स्वसमानेति / एवं तद्यनित्यकृनिविषयत्वमेव तत्समानाधिकरणज्ञानविषयत्वेन व्याप्तं न कृतिविषयत्वम् / ततश्च नित्यकृतिविषयस्य न तत्समानाधिकरणज्ञानविषयत्वसिद्धिरित्यत आह-न चैवमिति / कृतिविषयत्वस्यैव तद्व्याप्यत्वे नित्यकृतिविषयस्यापि तत्समानाधिकरणज्ञानविषयत्वाय नित्यज्ञानकल्पनागौरवादित्याशड्य व्याप्तिग्रहणकालेऽप्रतीतेर्न दोषतेत्याह-न चैवमिति / ननु कृतिविषयस्य तन्त्वादेस्तत्समानाधिकरणानित्यज्ञानविषयत्वदर्शनात् तदेव कृतिविषयत्वव्यापकमिति नित्यकृत्याश्रयेऽयनित्यज्ञानमेव सिद्धयोदिति शङ्कते-अथेति / व्याप्य इव ब्यापकेऽपि गौरवस्य दोषत्वान्नैवं व्याप्तिरित्याह-गौरवेणेति / तर्हि कृतिगतकार्यतावच्छेदकेऽपि लाघवं ग्राह्यमू, न गौरवमिति शङ्कते-नन्वेवमिति / कृतेर्ज्ञानसमानविषयत्वं चेत् कार्यतावच्छेदकं तत् प्रथम ग्राह्यमिति तदर्थं कृतिविषयस्य ज्ञानविषयत्वं ग्राह्यम्। तत्र चलाघवात् कृतिविषयत्वेनैव ज्ञानविषयत्वग्रहणान्नित्यकृतिविषयक नित्यज्ञानसिद्धौ ज्ञानसमानविषयत्वस्य नित्यकृतावपि गतत्वादनित्यज्ञानसमानविषयत्वमेव कृतेः कार्यतावच्छेदकं वाच्यम्, इत्यभिप्रेत्याह-न कृतीति / भवेदेतदेवं यदि कृतिविषयत्वव्यापकं स्यात् तच्चायुक्तम् / लाघवेन ज्ञानविषयत्वस्यैव तद्व्यापकत्वादिति
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy