SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेदः 227 कारणत्वेनाकारणत्वप्रसङ्गात् / ईश्वरकृतिरपि भोक्त्रदृष्टमुत्पाद्यव भोग्यं क्षित्यादिकमुत्पादयतीति साप्यदृष्टद्वारा स्यात् / तथा च भोक्तेव सर्वज्ञोऽपि न क्षितिकर्ता स्यात् / अदृष्टाद्वारककृतिमत एव कर्तृत्वात्। अन्यथा भोक्तापि जगत्कर्ता स्यात्। न च घटादिचिकीर्षा घटादिविशिष्टकृतिहेतुरिति विशेषणेऽपि हेतुरिति वाच्यम्; विषयस्य ज्ञान इव कृतावप्यविशेषणत्वात्, अन्यथा रूपादेरपि चक्षुः साध्यत्वप्रसङ्गात् / अङ्कुरादिना कृतिमनुमाय ततः ज्ञानेच्छयोरनुमाननिरासः / अस्तु तीकुराधनुमितकृत्यैव तदुभयसिद्धिः। न चानित्या कृतिः कारणं ज्ञानाद्यनुमापयति, न तु नित्येति वाच्यम्; कृतिविषयस्य कृतिसमानाधिकरणज्ञानादिविषयत्वनियमात् / ननु कृतौ स्वसमानाधिकरणज्ञानविषयत्वं कार्यतावच्छेदकम्, एकविषयादन्यदीयज्ञानात् समानाधिकरणादपि भिन्नविषयात् कृत्यदर्शनात् / कार्यतावच्छेदकश्च कार्यमात्रवृत्तिधर्मएवेति न नित्यकृतेः स्वसमानाधि मानाभावात्, तज्जन्यकृतेर्व्यापारत्वमेव नेत्यभिप्रेत्याह--ज्ञानादेति / अतिव्याप्तत्वादेतद्व्यापारलक्षणमपि नेत्याह-तन्तुरूपेति / ननु यज्जनयित्वैवेत्यत्र जनकं यज्जनयित्वेति विवक्षितं तन्तुरूपादेश्च पटाजनकत्वान्न तत्रातिव्याप्तिरित्याशक्य तथात्वे कृतेः कारणत्वं प्रथमं ग्राह्यमिति ज्ञानादेः कारणकारणतयाऽन्यथासिद्धेर्न घटादिकारणतेत्याह-न चेत्यादिना / किञ्च क्षित्यादिजनकादृष्टमुत्पाद्यैवेश्वकृतेः क्षित्यादिजनकत्वाददृष्टस्यापि तत्त्वापात इत्याह-ईश्वरेति / ईश्वरकृतेर्दृष्टबृद्वारकत्वमिष्टमित्यत आह-तथाचेति / कार्यानुकूलकृतिमत्त्वमात्रेण कर्तृत्वे वाधकमाह-अन्यथेति / ततश्च जीवातिरिक्तो जगत्कर्ता न सिद्धयेदिति भावः। चिकीर्षाया घटविशेषितकृति प्रति हेतुत्वाद् घटहेतुत्वमपि आवश्यकमित्यत आह-न चेति / ज्ञानेऽपि विषयस्य विशेषणत्वे रूपज्ञानस्य चक्षुर्जन्यत्वाद्रूपमपि तज्जन्यं स्यादित्याह-अन्यथेति / कार्यत्वहेतुना क्षित्यादिकर्तरि ज्ञानचिकोर्षयोरसिद्धा. वपि तदनुमितकृत्यैव तयोः सिद्धिरिति शङ्कते-अस्त्विति / . ननु अनित्यकृतेर्ज्ञानादिकार्यत्वात् ततस्तदनुमानं युक्तं नित्यकृतेश्चाकार्यत्वात् कथं तत्सिद्धिरित्यत आह-न चानित्येति / कृतिविषयमात्रस्य स्वसमानाधिकरणज्ञानविषयत्वनियमात् कृत्याश्रयस्येश्वरस्य' ज्ञानादिमत्त्वसिद्धिरित्याह-कृतिविषयस्येति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy