SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ 226 सटोकाद्वैतदीपिकायाम तत्र संस्कारोऽपूर्व च कल्प्यत इति तत्र तदुभयं द्वारम्, इह तु प्रथममेव कृतेः कारणताग्रहः संभवति। प्रत्यक्षे चिकीर्षागोचर एव कृतिरिति कृतावेव तयोरन्वयव्यतिरेको कृतिविनष्टयोस्तयोर्घटादौ कारणत्वायोगाच्च / न च कृतिापारः येन ज्ञानादेर्यागादितुल्यता स्यात् / अत एव यद्धि यज्जनयित्वैव यज्जनयति तत्तस्य व्यापार इति व्यापारलक्षणं कृतावप्यस्तीति परास्तम् / ज्ञानादेर्घटादिजन कत्वे प्रत्यक्षाद्यन्यतमप्रमाणाभावात् / तन्तुरूपादेरपि व्यापारत्वप्रसङ्गाच्च / न च तज्जन्यस्य जनकत्वविवक्षायां न दोष इति वाच्यम्, तहि कृतेः कारणताग्रहः प्रथममवश्यंभावीति पटं प्रत्यंशोरिव ज्ञानादेरपि कारण नियततया तस्योपाधित्वात् / न च कृतिनिरूपितसामान्यकार्यता जन्यतावच्छेदेनैव गृह्यत इति वाच्यम् चेप्टानिरूपितसामान्यकार्यताया अपि कृतिजन्यत्वावच्छेदेनैव ग्रहप्रसङ्गेन चेष्टाऽजन्यक्षित्यादौ कृतिजन्यत्वानुमानायोगादित्यादिकमूह्यमित्यर्थः। क्षित्यादि सकर्तृकमित्यत्र कर्तृ शब्दार्थ विकल्पयन् कार्यत्वहेतोस्तेन व्याप्ति दूषयति-किञ्चेति' / ज्ञानवत्वमित्यादित्रिषु कल्पेषु ज्ञानवज्जन्यत्वे साध्ये चिकीर्षावज्जन्यत्त्वं कृतिमज्जन्यत्वं चोपाधिः / चिकीर्षावज्जन्यत्वे च ज्ञानवज्जन्यत्वं कृतिमज्जन्यत्वं चोपाधिः / कृतिमज्जन्यत्वे च ज्ञानवज्जन्यत्वं चिकीर्षावज्जन्यत्वं चोपाधिरिति न व्याप्तिरित्यर्थः / ज्ञानादित्रितयवज्जन्यत्वं कर्तृत्वमिति पक्षं दूषयति न तुरीय इति२ / अप्रयोजकत्व मुपपादयति-कार्य हीति / कार्यत्वस्य घटादौ ज्ञानाद्यैकैकजन्यत्वेन व्याप्तत्वात्, तन्मते क्षित्यादावपि साध्यत्रयेण ज्ञानादित्रितयजन्यत्वं सिध्यति, ज्ञानादीनां च समानाधिकरणानामेव घटादिहेतुत्वग्रहदर्शनात् क्षितिहेतूनामपि तेषां सामानाधिकरण्यमावश्यकमिति तदधिकरणतयेश्वरसिद्धिरिति शङ्कते-नन्विति। घटादेर्शानजन्यत्वमिच्छाजन्यत्वं चासिद्धम् / तथा च कार्यत्वस्य न ताभ्यां व्याप्तिरिति दूषयति-न कृतेरिति / इतरकारणे सति ज्ञानेच्छाव्यतिरेके घटादिव्यतिरेकादर्शनान्न तयोस्तद्धेतुतेत्याह-कृताविति / ज्ञानादेर्घटादौ व्यतिरेकाभावेऽपि तत्कारणकृतौ व्यतिरेकवत्त्वात् तद्धेतुतेति शङ्कतेकृतिरेवेति / ज्ञानाद्यभावे कृतिर्न चेत् सैव तज्जन्यास्तु न घटादिः तं प्रति ज्ञानादेः कुलालपितृवज्जनकजनकत्वेनाहेतुत्वादित्याह-तीति / / ___ ननु यथा स्मृतिरूपकार्येऽनुभवस्य संस्कारो व्यापारो यथा वा यागस्य स्वर्गेऽपूर्वमेवं ज्ञानादेर्घटादिकार्ये कृतिर्व्यापार इति न तया व्यवधानमिति शङ्कते--अथेति / यागानुभवयोः स्वर्गस्मृत्योः स्वर्गकामादिवाक्यादन्वयव्यतिरेकाभ्यां च कारणत्वे निश्चिते तदुपपादकतयापूर्वं संस्कारश्च द्वारतया कल्प्येते। कृतिस्तु प्रथममेवान्वयव्यतिरेकाभ्यां घटादिकारणतया निश्चिता न स्वजनकज्ञानादेारं भवितुमर्हति / ततश्च ज्ञानादेः कृतावेव कारणता न घटादाविति न तस्यानुभवादितुल्यतेत्याह-नानुभूत इति / व्यापारलक्षणवत्वात् कृतिआनादेापार इत्याशङ्क्याह-अत एवेति / ज्ञानादि घटं जनयतीत्यत्र 1-2. अनयोः मूलं 224 पुटे दृष्टव्यम् /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy