SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ तृतीयः परिच्छेवः 225 त्वादव्याप्तेः, कार्य युपादानगोचरकृतिमज्जन्यम्, न तु तद् ज्ञानादिसमुदायवज्जन्यं व्यर्थविशेषणतया कर्तुस्तद्रूपेणाजनकत्वात् / ननु विशिष्टं न कारणम्, किन्तु ज्ञानादित्रितयं प्रत्येकमेव कारणं तेनानुमानेन सिद्धयति अर्थात् तत्समाज इति चेत् ? न, कृतेर्घटादिहेतुत्वेऽपि ज्ञानेच्छयोघंटायहेतुत्वात। कृती सत्यां तव्यतिरेकेण घटानुदयाभावात, कृतिरेव तदुभयं विना नेति चेत् तहि कृतिरेव तन्निमिताऽस्तु न घटादिः / जनकजनकस्याजनकत्वात्। ज्ञानेच्छयोः कृतिद्वाराघटादिजनकत्वपक्षनिरासः अथ न ज्ञानादि जनकजनकम्, किन्तु स्मृतौ स्वर्गे च संस्कारापूर्वद्वाराऽनुभवयागाविव घटादौ कृतिद्वारा कारणमिति चेत् न, अनुभूते स्मृति ननुभूत इत्यन्वयव्यतिरेकाभ्यां श्रुत्या चानुभवादेस्तत्र कारणत्वं प्रथममवगम्य तदुपपादकतया संभवादस्यान्वयव्यतिरेकादिना दुहत्वस्य चोक्तत्वाज्जन्यतावच्छेदेनैव ग्रहोऽनुपपन्न इत्याह-तत्रेति / किञ्च जन्यत्वसामानाधिकरण्येनापि कृतिजन्यत्वग्रहसंभवान्न तस्य तदवच्छेदकतया व्याप्यत्वग्रहोऽपेक्षत इत्याह-जन्यत्वेति / तत्रैवोपाध्यन्तरमाह-एवमिति / चेष्टायां कृतिजन्यत्वेऽपि चेष्टाजन्यत्वाभावात् साध्याव्यापकोऽयमुपाधिरित्याशक्य पक्षधर्मावच्छिन्नसाध्यव्यापकत्वमाह-तस्येति / ननुचेष्टाऽन्यत्वे सत्यनित्यकृतिजन्यत्वमेव चेष्टाजन्यतावच्छेदकमित्यत आह-- न चेति / ननु चेष्टाजन्यतावच्छेदकं चेष्टातिरिक्तकृतिजन्यत्वं चेत्प्रथमं जन्यत्वावच्छेदेनैव लाघवाद् ग्राह्यमिति क्षित्यादावपि कृतिजन्यत्वस्यावश्यकत्वादनित्यकृतिजन्यत्वमेव चेष्टाजन्यत्वप्रयोजकमित्यभ्युपेयमित्यत आह-नचोक्तविधयेति / चेष्टाजन्यत्वग्रहं विना कृतिजन्यत्वस्यैव दुर्ग्रहत्वात् तदेव प्रथमग्राह्यमित्याह-चेष्टेति / पटादेः कृतिजन्यचेष्टाजन्यत्वग्रहं विना कृतिजन्यत्वनिश्चयाभावात् तत्प्रथमं ग्राह्यमित्याह-कृतीति / फलितमाह-तथा चेति / ननु घटादेः कृतिजन्यचेष्टाजन्यत्वं विना कृतिप्रयोज्यत्वस्य दुर्घहत्वात् कथं तदवच्छेदेन चेष्टाजन्यत्वग्रह इत्यत आह-एवमिति / यद्यपि प्रथमं घटत्वादिनैव चेष्टाजन्यवं गृह्यते तथापि द्वारद्वारिणोरेकावच्छेदेनैव जनकताग्रहनियमाच्चेष्टाद्वारककृतिजन्यत्वमपि तेनैव रूपेण ग्राह्यमिति चेष्टातिरिक्तकृतिजन्यत्वस्य चेष्टाजन्यत्वेन
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy