________________ 224 सटीकाद्वैतदीपिकायाम् ग्राहकतर्कस्य निरस्तत्वात् / लाघवेन कृतिजन्यत्वावच्छेदेन शरीरजन्यत्वग्रहादुपाधेः साध्यव्यापकत्वाच्च / न च शरीरजन्यत्वमन्यत्राप्यस्तीति न कृतिजन्यत्वं तदवच्छेदकम् / न्यूनवृत्तेरपि धूमत्वादिवदवच्छेदकत्वात् / ननु शरीरजन्यतावच्छेदकं कृतिजन्यत्वं चेत् तत्प्रथम ग्राह्य मिति जन्यत्वावच्छेदेनैव प्रथमं गृह्यते। तथा चानित्यकृतिजन्यमेव शरीरजन्यमिति चेत् ? न, तत्र व्याप्तितद्ग्राहकाभावयोरुक्तत्वात्। जन्यत्वसामानाधिकरण्येनापि तद्ग्रहसंभवाच्च। चेष्टाजन्यत्वरूपोपाध्यन्तरोभावनम् / एवं चेष्टाजन्यत्वमुपाधिः, तस्य चेष्टातिरिक्तकृतिजन्यत्वव्यापकत्वात्, न च चेष्टाजन्यत्वे तदतिरिक्तानित्यकृतिजन्यत्वं प्रयोजकम्, गौरवात् / न चोक्तविधया तत्प्रामाणिकम, चेष्टाजन्यत्वस्य प्रथमं ग्राह्यत्वात्, कृतिव्यतिरेकात् किं घटादिव्यतिरेकः चेष्टाव्यतिरेकाद्वेति संशयस्य चेष्टाद्वारत्वनिर्णयेनैव निवर्त्यत्वात् तथा च कृतिप्रयोज्यत्वावच्छेदेन चेष्टाजन्यत्वं लाघवात् ग्राह्यमिति विपरीतमेव प्राथम्यम् / एवमन्यस्यापि शङ्कितस्य दूषणमूह्यम् / साध्यकर्तृत्वस्य दुर्वचत्वादप्युपाधेरित्वम् / किं च साध्ये कर्तृत्वं कार्यानुकूलोपादानज्ञानवत्त्वं चिकीर्षावत्त्वं कृतिमत्त्वं त्रितयमपि वा ? आयेषु तदितरजन्यत्वोपाधेर्न व्याप्तिः। न तुरीयः, अप्रयोजक - व्यभिचारित्वात् प्रमेयत्ववदिति व्यभिचारोन्नायकतया दूषकत्वसंभवान्न क्षतिरित्याहव्यभिचारेति / 'अनुकूलेन तर्केण सनाथे सति साधने" इति न्यायेनोपाधेः साध्याव्यापकत्वं शङ्कते-कार्यत्वेति / कार्यमात्रे कृतिमतः कारणत्वग्रहं विना तर्क एव नावतरतीत्युक्तत्वान्मैवमित्याह-न व्याप्तीति / साध्यस्यैवोपाधिव्याप्यत्वे तर्कोऽपीत्याह-लाघवेनेति / अनित्यकतिजन्यत्वापेक्षया कृतिजन्यत्वस्य लाघवेन धटादो शरीरजन्यत्वावच्छेदकः त्वाच्छरीरजन्यत्वस्य तद्व्यापकत्वसिद्धिरित्यर्थः / कृत्यजन्ये ज्ञानादावपि शरीरजन्यत्वस्य सत्वात् तत्र कथं शरीरजन्यतावच्छेदकत्वमित्याशक्य धूमत्वस्यालोकादिसाधारणव्याप्यतावच्छेदकत्ववत् तदुपपत्तिरित्याह-न चेत्यादिना / नन्वेवं घटादौ शरीरजन्यत्वग्रहात् पूर्वमेव कृतिजन्यत्वं ग्राह्यमवच्छेदकग्रह विनाऽवच्छेद्यग्रहायोगात् कृतिजन्यत्वं च लाघवाज्जन्यत्वावच्छेदेनैव गृहीतमिति क्षित्यादावपि तद्व्यापककृतिजन्यत्वस्यावश्यकत्वान्न तच्छरीरजन्यतावच्छेदकं किन्त्वनित्यकृतिजन्यत्वमेवेति शङ्कते-नन्विति / कार्यमात्रे कृतिजन्यत्वस्य व्याप्त्यन्तरविरोधाद