________________ तृतीयः परिच्छेदः 223 अनुमाननिरासेन क्षितिकतु: कृतिनिरास एव तात्पर्यम् अत्र च क्षितिकर्तुः कृत्याश्रयत्यं निरस्यते न तु क्षितेः सकर्तृकत्वं तस्य श्रुतिसिद्धत्वात्, कृत्यघटितस्यैव कर्तृत्वस्य वक्ष्यमाणत्वात्। कृतिजन्यत्वे शरीरजन्यत्वोपाधेश्च / न च शरीरावयवक्रियायां साध्याव्यापकत्वम्, तत्रापि घटादाविव शरीरस्य निमित्तत्वात् / शरीरावयवक्रियातिरिक्तत्वस्य कृतिसाध्यत्वे वा व्यापकमस्तु अवच्छिन्नसाध्यव्यापकस्याप्युपाधित्वात् / न च शरीरजन्यत्वाभावे गौरवेण न कृत्यजन्यत्वनिरूपिता व्याप्तिरिति दूषकताबीजाभावान्नायमुपाधिरिति वाच्यम्, व्यापकाभावत्वेन तस्य व्याप्यत्वात् / अन्यथा चन्दनवल्यभावस्यापि सुरभिधूमाभावव्याप्यता न स्यात् / व्यभिचारोन्नयने व्याप्त्यनपेक्षणाच्च / कार्यत्वहेतोरनुकूलतर्केण कृतिजन्यत्वव्याप्तिग्रहान्नायमुपाधिः साध्यव्यापकः पक्ष एव साधनवति साध्यसद्धावादिति चेत् ? न, व्याप्ति नन्वङ्करादौ कार्यत्वाज्ञ नदशायां व्यभिचारसंशयादेरभावात् तदा व्याप्तिग्रहो घटत इति शङ्कते-नन्विति / अङ्करादेरस्मदादिकृति विनापि जन्यतया बालगोपालसिद्धत्वेन तस्य तदज्ञानदशैव नास्तीत्याह-न सर्वेषामिति / कदाचिद् व्यभिचाराज्ञानमात्रेण व्याप्तिग्रहे दोषमाह -अन्ययेति / व्याप्तिग्रहेऽपि तस्योक्तयुक्तिभित्वनिश्चयान्न व्याप्तिसिद्धिरित्याह-गृहीताया इति / एवं कार्यत्वस्य कृतिजन्यत्वेन व्याप्तिग्रहो न घटत इत्युक्तम् इदानीं प्रबलानेकव्याप्तिविरोधात् सैव नेत्याह--किंञ्चेति / क्षित्यादेः सकतृत्वनिराकरणं सिद्धान्तविरुद्धमित्याशयाह-अत्र चेति / कृतिमत एवं कर्तृत्वात् कथं कृत्याश्रयत्वनिषेध इत्यत आह-कृत्यघटेतस्येति। कार्यानुकूलज्ञानवत्वं ज्ञानवत्त्वे सति कारणता वा कर्तृत्वमिति वक्ष्यत इत्यर्थः / सोपाधिकत्वादपि न व्याप्तिरित्याह-कृतिजन्यत्व इति / शरीरावयवोपादानकक्रियायां कृतिजन्यत्वे सत्यपि शरीरजन्यत्वाभावान्न तस्य साध्यव्यापकतेत्यत आह-न च शरीरेति / पक्षधर्मावच्छिन्नसाध्यव्यापको वाऽयमुपाधिरित्याहशरीरेति / नन्ववच्छिन्नसाध्यव्यापकस्य सर्वत्र वक्तुं शक्यत्वात् स उपाधिरेव नेत्याशंक्य तस्यापीतरवत् तर्काभावे दूषकताबीजसाम्यादुपाधिता युक्तेत्याह - अवच्छिन्नेति / ___ ननु क्षित्यादिकमकनकं शरीराजन्यत्वादात्मवदिति प्रतिपक्षोन्नायकतयोपाधेVषकत्वं वाच्यम, तदयुक्तम्, अजन्यत्वस्यौव लाघवात्, तद्व्याप्यत्वेन शरीराजन्यत्वस्य गौरवेणाव्याप्यत्वादित्यत आह-न चेति / न ह्यस्य शराराजन्यत्वेन व्याप्यता। किन्तु व्यापकाभावत्वेनेत्याह-व्यापकेति / व्यापकाभावत्वेन व्या त्यनङ्गीकारे बाधकमाहअन्यथेति / वह्नयभावस्यैव सुरभिधूमाभावं प्रत्यपि व्याप्यतासंभवात्, चन्दनवह्नयभावस्य व्याप्यता न स्यादित्यर्थः / किञ्च कार्यत्वं कृतिजन्यत्वव्यभिचारि तद्व्यापकशरोरजन्यत्व