________________ 222 सटीकाद्वैतदीपिकायाम निश्चयदशायां नित्यकृत्युपस्थिति विना उपस्थितक्षितिकार्यत्वसाधारणव्याप्तिग्रहानुकूललाघवानवतारात् / तदुपस्थितौ चालौकिककृतिकल्पनागौरवेण प्रकृतलाघवानवतारात् / एतेनाङकुरादिकं यदि कर्तारं विनैव जायेत तहि न भवेदेव चेतनानधिष्ठितात् कारणात् कार्यादर्शनादिति प्रत्युक्तम्। अस्यापि तर्कस्य कार्यमात्रे कृतिमतः कारणत्वावधारणं विनाऽनवतारात / अदर्शनस्य घटादेः कृतिमज्जन्यत्वेऽप्युपपत्तेः। अन्यथा शरीरं विना घटादिकार्य न दृश्यत इति कार्यत्वस्य तेनापि व्याप्तिग्रहप्रसङ्गः। तस्यापि पक्षधर्मताबलान्नित्यस्यास्मदाद्ययोग्यस्य सिद्धयुपपत्तेः। नन्वङ्कुरादेः कार्यत्वानित्यकृत्यजन्यत्वाज्ञानदशायां घटादौ व्याप्तिग्रह इति चेत् ? न, सर्वेषां तत्सामग्रीसत्वेन तद्विरहदशाभावात् / अन्यथा शरीरेणापि तत्प्रसङ्गात्, गृहीताया अपि पश्चात् तर्काभावाद् बाधसभवाच्च / किञ्च नास्त्येव ब्याप्तिः कृतिरनित्या शरीरजन्या च कृतिमान् शरीरी अशरीरीकृतिमान्न भवती त्याद्यनेकप्रमाणस्य लाघवानुगृहीतस्य बाधकस्य सत्त्वात् / कर्तृजन्यत्वेऽवधृते हि क्षित्यादिकार्यस्यापि तेन विनानुपपत्तिरिति तर्कः प्रवर्तते तदेवोक्तविधया दुर्ग्रहमिति कथं तदुपजीवी तर्कः प्रवर्ततेत्यर्थः / ननु घटादी कार्यत्वमेव कर्तृ'जन्यताव्याप्यं लाघवात्, न तु शरीरकार्यत्वं गौरवादिति तर्काद् व्यभिचारसंशयनिवृत्तिरित्यत आह-न च व्याप्यतेति / किं नित्यकृतावनुपस्थितायामेवोक्तलाघवाद्यवतारः, तदुपस्थितौ वा ? आये जन्यकृत्यजन्यतया निश्चितक्षित्यादिकार्यस्य कृतिजन्यत्वासंभवनया लाघवादिकमेव नावततीत्याहक्षितेरिति / द्वितीयं दूषयति-तदुपस्थिताविति / तर्कान्तरं निराकरोति--एतेनेति / कार्यमात्रे कर्तुः कारणत्वे गृहीते हि कर्तुरभावे कार्याभावोऽप्यापादयितु शक्यते / तस्यैवोक्तप्रकारेण दुर्ग्रहत्वादसावपि तर्को नावतरतीत्याह--अस्यापीति / घटादिकार्यस्य कर्तारं विनाऽदर्शनात् क्षित्यादिकार्यमपि तं विना न स्यादित्याशङ्ख्याह-अदर्शनस्येति घटादिरूपकार्यविशेषस्यैवेत्यर्थः। कर्तारं विना कार्यविशेषादर्शनमात्रेण कार्यमाने सज्जन्यत्वग्रहेऽतिप्रसङ्गमाह-अन्यथेति / ननु क्षित्यादौ शरीरस्य कारणत्वे तस्यापि कार्यतया शरीरान्तरं तत्कारणतयास्थेयमेवं तस्य तस्यापीत्यनवस्था स्यादराद्युत्पादकशरीरमनुपलब्धचरं चेत्यत आहतस्यापीति / न च शरीरस्यानित्यत्वनियमेन नित्यत्वानुपपत्तिरिति वाच्यम्, कृतेरप्यनित्यत्वनियमेन तस्या अपि तदनुपपत्तेरिति भावः /