________________ ခုခု ရ तृतीयः परिच्छेदः तस्यापि तद्व्यतिरेकग्रहणपूर्वकत्वात् / नापि शब्दाद् घटादेः कृतिजन्यत्वनिश्चयः। प्रागीश्वरात् अन्धपरम्परात्वशङ्कादुष्टत्वात् / तर्काभावाच्च न कृतिकार्ययोः व्याप्तिग्रहः किञ्च पक्षे पक्षसमे वा साधनवति साध्यसंशयोऽपि तकं विना व्याप्तिग्रहप्रतिवन्धक एव धूमादावपि तर्केण तन्निवृत्तावेव व्याप्तिग्रहात, अन्यथा तर्कवैय ात / न चास्ति प्रकृते कश्चित् तर्कः न च कार्यत्वभङ्गप्रसङ्गात् संशयनिवृत्तिः / कार्यमात्रस्य कर्तृजन्यत्वावधारणं विना तदयोगात् / न च व्याप्यतावच्छेदकलाघवेन कार्यत्वस्य कर्तृजन्यत्वसंशयनिवृत्तिरिति वाच्यम, क्षितेरनित्यकृत्यजन्यत्व भावप्रतियोगितावच्छेदकत्वं न संभवतीति न शङ्कनीयम् / अथवा पराभिमतप्रागभावस्य निरस्तत्वात् कार्यप्राक्काले तत्समवायिसंसर्गितदत्यन्ताभाव एव प्रागभावः अत्यन्ताभावप्रतियोगितायां सामान्यमवच्छेदकमेवेति भावः। किञ्च कृतित्वावच्छेदेनैव प्रागभावप्रतियोगित्वग्रहे कृतेस्तेन रूपेण कार्यव्यतिरेकप्रहो युज्यते नान्यथेत्याह--कृतित्वेति / कृतित्वावच्छेदेन प्रागभावप्रतियोगित्वनिश्चयस्यावश्यकत्वे प्रकृते किमायातमित्यत आह-ततश्चेति / कृतित्वावच्छेदेन जन्यत्वनिश्चयवतः कृतिजन्यत्वस्य जन्यकृतिजन्यत्वं व्यापकमित्यपि निश्चयसंभवात्, क्षित्यादी जन्यकृतिजन्यत्वाभावनिश्चयेन तन्नियतकृतिजन्यत्वस्याप्यभावनिश्चयात् तत्र कार्यत्वं कृतिजन्यत्वस्य व्यभिचारीति निश्चयात् तयोर्व्याप्तिग्रहो न घटत इत्यर्थः / - विमतं कृतिजन्यं तदन्वयव्यतिरेकानुविधायित्वाद्यद्यदन्वयव्यतिरेकानुविधायि तत्तज्जन्यं यथा तन्तुजन्यः पट इत्यनुमानाद् घटादेः कृतिजन्यत्वनिश्चय इत्याशक्यात्रापि प्रागभावरूपकृतिव्यतिरेकस्यावश्यग्राह्यत्वादुक्तविधया न कार्यत्वस्य कृतिजन्यत्वेन व्याप्तिग्रहसंभव इत्यभिप्रेत्याह-न चेति / ... अस्तु, तप्तिोपदेशपरंपरया घटादेः कृतिजन्यत्वनिश्चयः / न चात्र व्यतिरेकग्रहापेक्षा अतो नोक्तदोष इत्यत आह-नापीति / ईश्वरसिद्धः पूर्वमुपदेशमूलप्रमाणाभावेन सस्यान्धपरम्पराप्राप्तत्वशङ्कया निश्चायकत्वायोगादित्याह-प्रागिति / एवं व्यतिरेकमुखेन व्यभिचारनिश्चये व्याप्तिग्रहो न संभवतीत्युक्तमिदानी व्याप्तिग्रहप्रतिबन्धकव्यभिचारसंशयनिवर्तकतर्काभावादपि न व्याप्तिग्रह इत्याह-किञ्चेति / व्यभिचारसंशयस्याप्रतिबन्धकत्वे तस्य तर्कानिवर्त्यत्वे च बाधकमाह-अन्यथेति / व्याप्तिग्राहकमानादेव तद्ग्रहसंभवाद् गृहीतव्याप्तिकहेतोः पक्षधर्मताबलात् स्वसाध्यसाधकत्वाच्च तर्को व्यर्थः स्थादित्यर्थः। तत्रापि तर्काद् व्यभिचारसंशयो निवर्ततामिति तत्राह-न चेति / विपक्षे हेतूच्छित्तिप्रसङ्गरूपतर्कः प्रकृतेऽप्यस्तीत्यत आह--न चेति / कार्यमात्रस्य