________________ 220 सटीकाद्वैतदीपिकायाम् तत्परीक्षया। एवं च कृतिप्रागभावे घटो नेति व्यतिरेकनियमावधारणार्थ कृतेः प्रथमं प्रागभावप्रतियोगित्वमवसेयम् / अत्रैव युक्त्यन्तरम्, कृतित्वावच्छेदेन जन्यत्वग्रहश्च किं च ज्ञानचिकीर्षयोर्घटजनकतासिद्धयर्थ कृतेस्तज्जन्यत्वं वाच्यम, तद्द्वारत्वनिश्चयं विना तयोस्तदसंभवादिति कृतेः प्रागभावप्रतियोगित्वमग्रे ग्राह्यमेव। तत्र च कृतित्वावच्छेदेनैव तदवसेयं लाघवात्, न तु रूपान्तरेण गौरवात् कृतित्वावच्छेदेन व्यतिरेकनियमावधारणे तस्यैवोपयुक्तत्वाच्च। ततश्च सर्वाकृतिर्जन्या अनित्या चेति निश्चयबलात् जन्यकृत्यजन्यत्वेन निश्चितक्षित्यादौ कार्यत्वनिश्चय एव प्रकृतव्याप्तिग्रहविरोधी कृतित्वावच्छेदेनानित्यत्वनिश्चयवतः क्षित्यादौ कृतिजन्यो न भवतीति निश्चयस्यापि सुलभत्वात् / न चानुमानात् घटादेः कृतिजन्यत्वम्; तदा कृतिव्यतिरेकात् कार्यव्यतिरेक इत्यभिप्रेत्याह - तदेति / मृदादिविषयप्रथमकृतिसमये द्वितीयकृत्यभाव एव कार्यव्यतिरेकप्रयोजको वाच्यः, स च तदा कृतिसमकालीन इति तस्य तत्प्रयोजकत्वं न स्यादित्याह-न द्वितीयेति / ___ किं च कृतिव्यतिरेके कृत्यसमानकालीनत्वस्य कृतिकादाचिकत्व विना दुर्ग्रहत्वात् कादाचित्कत्वमवश्यं ग्राह्यम्, तत्र चाग्रे दोषो वक्ष्यत इत्यभिप्रेत्याह-तस्येति / नन्वात्मनिष्ठकृतिव्यतिरेकोऽपि न कार्यव्यतिरेकप्रयोजकः। तस्य कार्यस्थितिकालेऽपि सत्वादिति शङ्का निराकुर्वन्नुपसंहरति तस्मादिति / नन्वेवं दण्डादिव्यतिरेकोऽपि घटादिव्यतिरेकप्रयोजको न स्यात्, चक्रभ्रमणादिकाले दण्डादिव्यतिरेके सत्यपि कार्यदर्शनादित्यत्राह-कारणेति / दण्डादेभ्रमणादिद्वारा कार्यप्रयोजकत्वेनापि घटार्थिनस्तदुपादानोपपत्तेर्न काचिद् क्षतिरिति भावः / भवतु आत्मनि कृतिव्यतिरेक एव कार्यव्यतिरेकप्रयोजकः, ततः किमित्यत आहएवं चेति / आत्मगतकृतिध्वंसस्य कार्यव्यतिरेकप्रयोजकत्वायोगात् लाघवाच्च तत्प्रागभाव एव कार्यव्यतिरेकप्रयोजक इति कृतेः प्रागभावप्रतियोगित्वं व्याप्तिग्रहात् पूर्वमेव ग्राह्यमित्यर्थः। कृतेः पूर्वमेव प्रागभावप्रतियोगित्वग्रह आवश्यक इत्यत्र युक्त्यन्तरमाहकिञ्चेति / उपादानगोचरयोर्ज्ञानचिकीर्षयोः कृतिव्यवहितयोः कृतिद्वारकत्वनिश्चयं विना घटादिकारणत्वग्रहायोगात् तद्द्वारकत्वस्य तज्जन्यत्वग्रहं विनाऽयोगात्, तज्जन्यत्वग्रहणाय' कृतेः प्रागभावप्रतियोगित्वग्रहस्तत्रावश्यक इत्यर्थः / तत्र कृतित्वावच्छेदेनैव प्रागभावप्रतियोगित्वं गृह्यते, उतानित्यकृतित्वावच्छेदेनेति वीक्षायामाद्य एव न्याय्य इत्याह-तत्र चेति / . अत्र तन्तुत्वादेः पटादिसामान्य इव कृतित्वस्यापि प्रागभावप्रतियोगित्वसामान्यानतिरिक्तदेशवृत्तित्वरूपमवच्छेदकत्वं विवक्षितम् / ततश्च सामान्यस्य' प्राग