________________ तृतीयः परिच्छेदः 219 मृदादिषु कार्योत्पत्तेः पूर्वं कृतिसद्भावशङ्कानिरासौ यत्त कार्यपूर्वसमये मृदादिषु स्वरूपसंबन्धेन कृतिरेवास्ति न तदत्यन्ताभाव इति। तन्न। तदापि मृदि कृतिर्नास्ति मृतकृत्याधारो नेति कृतितदधिकरणत्वसामान्याभावज्ञानस्य वाधकाभावेन प्रमात्वात् / मृदि कृत्यनुभवो बाधक इति चेत् ? न,तस्यातीते ज्ञानमिति ज्ञानस्येव तद्विषयताविषयत्वात्। किं चैवं सति कृत्याधारत्वस्य लाधवावधूतात्मत्वव्याप्यत्वभङ्गप्रसङ्गः। न च तदपि स्वरूपसंबन्धेन तत्रास्तीति वाच्यम्, कदापि तत्र तद्विशिष्टप्रत्ययाभावेन तस्य तद्वत्तौ प्रमाणाभावात् / ननु कृत्यसमानकालीनतव्यतिरेकः कार्यव्यतिरेकप्रयोजकः। न च तस्य घटावुत्पत्त्यनन्तरमपि सत्त्वानवमिति वाच्यम, तदा तस्य स्वेतरसकलकारणासमवहितत्वादिति चेत् ? न, द्वितीयकृत्यभावस्याप्रयोजकत्वप्रसङ्गात; तस्य कृतिकादाचित्कत्वग्रहणाधीनग्रहत्वाच्च। तस्मात् कृतितव्याप्येतरसकलसमवधाने यदाऽऽत्मनि कृतिविरहस्तदाऽग्रिमक्षणे कार्यव्यतिरेक इत्यबाधितानुभवात् स एव तत्र प्रयोजक इति न कृतिसंसर्गाभावः, तत्प्रयोजकः / कारणान्तरे तु यथा तथाऽस्तु; कि प्रेक्षावतां शरीरावच्छिन्नात्मपरम् -तथैवेति / शरीरावच्छिन्नात्मनि कृत्यभावे कार्याभावदर्शनात्, तनिष्ठकृत्यभाव एव कार्याभावप्रयोजकः, तत्र च न कृत्यत्यन्ताभावः संभवतीति भावः / आत्मसमवेतकृतिम॒दादावपि स्वरूपसंबन्धेनास्तीति कस्यचिन्मतमनूद्य दूषयतियत्त्वित्यादिना। बाधकाभावोऽसिद्ध इति शङ्कते-मृदीति / कृतिविषत्वमेव "मृदि कृतिरि" त्यनुभवविषयस्तस्य चाभावानुभवेनाविरोधान्न तद्वाधकतेत्याह-न तस्येति / किञ्च कृतिसमवायितया कृत्याधारत्वापेक्षया लाघवात् कृत्याधारत्वमेवात्मत्वव्याप्यमिति वाच्यम्, तच्चानात्मनोऽपि कृत्याधारत्वे भग्नं स्यादित्याह-किञ्चेति / आत्मत्वस्य मृदादी समवायेनाभावेऽपि स्वरूपसंबन्धेन सत्त्वात् कृत्याधारत्वस्य न तद्व्याप्यत्वभङ्ग इत्याशक्याह-न च तदपीति / आत्मत्वस्य मृदादी समवायाभावेऽपि स्वरूपसंबन्धेन सत्त्वात् कृत्याधारत्वस्य न तद्व्याप्यत्वभङ्गइत्याशङक्याऽऽहन च तदपीति / आत्मत्वस्य मृदादौ स्वरूपसंबन्धवत्त्वस्य विशिष्टप्रत्ययस्य कदाप्यभावात् तयोः स्वरूपसंबन्धोऽपि नास्तीत्यर्थः / आत्मगतकृतिव्यतिरेको न कार्यव्यतिरेकप्रयोजकः / किन्तु कृत्यसमानकालीनस्तत्प्रयोजकः। स च कृतिसमये मृदादावपि नेति न कृत्यनन्तरकार्यव्यतिरेक इत्यभिप्रेत्य शङ्कते-नन्विति / एवं तर्हि कार्यस्थितिसमये मृदादौ कृत्यसमानकालीनतद्व्यतिरेकस्य सत्वात्, तदा कार्यव्यतिरेकापात इत्यत आह-न चेति / कृतितद्व्याप्येतरकारणसमवधाने सति हि कृतिव्यतिरेकः कार्यव्यतिरेकप्रयोजकः कार्यस्थितिसमये च कारणसमवधानाभावान्न