________________ 218 सटीकाद्वैतदीपिकायाम् ब्रह्मणि प्रमाणविचारः ईश्वरानुमाननिरासश्च तथाहि-न तावत् प्रत्यक्षं तत्र प्रमाणम्, रूपस्पर्शहीनतया बाह्यप्रत्यक्षागोचरत्वात् / मनसः केवलस्य भोक्तृतद्धर्ममात्रग्राहकत्वात् / ब्रह्मापिभोक्त्रभिन्नमिति चेत् ? न, सर्वज्ञ--सर्वात्म-ब्रह्मणस्तद्विपरीतभोक्तृतावन्मात्रत्वानुपपत्तेः। नन्वहमनुभवे प्रकाशः साक्षिण उक्तस्स एव ब्रह्मेति चेत्, सत्यं, अहमनुभवस्याप्यज्ञानत्वात्, तेन तत्स्वरूपनिर्धारणाभावाच्च / ननु कार्यत्वहेतुः कर्तृजन्यत्वनियतः क्षित्यादिकर्तारमनुमापयतीति चेत् ? न तावत् कार्यमा कृतिमतः कारणत्वग्रहः संभवति, घटादेः कृतिजन्यत्वेऽवधृते हि तत्र कार्यत्वेन तद्व्याप्तिग्रहः। तत्र च तदवधारणमन्वयव्यतिरेकाभ्यां चेत् कस्तहि कार्यव्यतिरेकप्रयोजकः कृतिव्यतिरेकः / संसर्गाभाव इति चेत् ? न, कृत्यत्यन्ताभावस्य कार्यव्यतिरेकाप्रयोजकत्वात्। आत्माधिकरणककृतिव्यतिरेक एव हि तत्प्रयोजकः तथैव नियमेनानुभवात् / अनात्मनि तव्यतिरेकस्य कार्यपूर्वकालेऽपि सत्वात् / भोक्तब्रह्मणोरभेदात्,ब्रह्मापि मनोग्राह्यमिति शङ्कते-ब्रह्मेति / जीवस्याशनायाद्यतीतरूपेणैव ब्रह्माभेदो न भोक्तृरूपेण ततश्च न भोक्तृग्राहकमनसो ब्रह्म विषय इत्यभिप्रेत्याह-न सर्वशेति / अहमनुभवस्य साक्षिविवेके चिदचिद्गोचरत्वाभिधानात् तत्र चिदंशस्य ब्रह्मत्वात् कथं तस्य प्रत्यक्षागम्यत्वमिति शङ्कते-नन्विति / अहमनुभवे साक्षिप्रकाशमङ्गीकरोतिसत्यमिति / तर्हि ब्रह्मणो मानान्तरगम्यत्वमित्यत आह-अहमनुभवस्येति / अहमाकारवृत्तेः क्लुप्तप्रमाकरणाजन्यत्वेन ज्ञानत्वाभावादित्यर्थः तस्य ज्ञानत्वेऽपि जडात्मतया चिद्विषयत्वेन भ्रान्तित्वान्न तेन ब्रह्मस्वरूपसिद्धिरित्याह-तत्स्वरूपेति / प्रत्यक्षतोऽस्यासिद्धावपि अनुमानादीश्वरसिद्धिरिति शङ्कते-नन्विति / कार्यत्वस्य कृतिमज्जन्यत्वेन व्याप्तिग्रह एव तावदनुपपन्न इति दूषयति-न तावदिति / असंभवमेवोपपादयितुं घटादौ कर्तृजन्यत्वज्ञानं विना तेन कार्यत्वस्य व्याप्तिग्रहायोगात् तदर्थं तस्य कृतिजन्यत्वग्रह आवश्यक इत्याह-घटादेरिति / कृतौ सत्यां घटादीतरथा नेत्यन्वयव्यतिरेकाभ्यां घटादेः कृतिजन्यत्वनिश्चय इष्ट इति शङ्कते तत्रेति ! कृतेर्व्यतिरेको नाम तदभावः स कीदृशः कार्यव्यतिरेकप्रयोजक इति पृच्छति–कस्तहीति / कृत्यन्योन्याभावे सत्यपि घटादिकार्यदर्शनात् तत्संसर्गाभावमात्रं तदभावप्रयोजकमिति शङ्कते-संसर्गति / मृदादौ कृन्यत्यन्ताभावसत्वे कार्गदर्शनात् न कृतिसंसर्गाभावः कार्यव्यतिरेकप्रयोजक इत्याह-न कृतीति / तहि कीदृशः कृतिव्यतिरेकः कार्यव्यतिरेकप्रयोजक इत्याकाङ्क्षायामाह-आत्मेति / एतच्च