________________ 217 तृतीयः परिच्छेदः निरवधिनिर्मलवर्तिप्रकटनशीलप्रभो गुरोस्स्नेहात् / औपनिषदात्मदीपः कुरुतात् कल्याणकारिणी दिद्याम् / / तत्पदाद्यनिरूपणप्रतिज्ञा अथ महावाक्यगततत्पदार्थों ब्रह्म निरूप्यते तदवाप्तेरेव मुमुक्ष्वाकाङ्क्षितपुरुषार्थतया तदवगमं विना जिज्ञासाऽनिवृत्तः। प्रकृतवाक्यार्थज्ञानायोगाच्च, नहि तेन विना पुरुषार्थः सिद्धयति तस्य तदेकोपायत्वात, तवाह भगवान्नारदः-तत्त्वमस्यादिवाक्योत्थं-ज्ञानं मोक्षस्य साधनम् / ज्ञाने त्वनाहते सिद्धे सर्व ब्रह्ममयं भवेत् // इति। तच्च तं त्वौपनिषदमित्यादि. श्रुतेरुपनिषदवसेयमपि वादिनां स्वरूपप्रकारविप्रतिपत्तिः तत्रेति तात्पर्यावगमाय तन्निरूपणमर्थवत् औपनिषदत्वविशेषणकीर्तनं च ब्रह्मणो न स्वरूपख्यापनम्, किन्तु मानान्तरगोचरत्वव्यावृत्तिपरम् / प्राधान्येनैतत्परिच्छेदप्रतिपाद्यमाह-अथेति / प्रतिपत्तृस्वरूपभूतत्वंपदार्थनिरूपणानन्तरमित्यर्थः / ननु 'आत्मज्ञानान्न [लाभान्न] परं विद्यते” इति स्मरणात् त्वंपदार्थनिश्चयेनैवापेक्षितसिद्धः, किमर्थ तत्पदार्थनिरूपणमित्यत आह-तदवाप्तेरिति / 'ब्रह्मविदाप्नोति परं" "ब्रह्म वेद ब्रह्मव भवति" इत्यादिना ब्रह्मावाप्तिरूपमोक्षस्य ब्रह्मज्ञानाधीनत्वश्रवणात् तज्जिज्ञासायास्तन्निश्चयं विना निवृत्त्यभावात् तन्निरूपणमर्थवदित्यर्थः। किञ्च तत्पदार्थानिरूपणे तत्त्वमस्यादिवाक्यार्थज्ञानमपि न स्यात्, पदार्थज्ञानस्य वाक्यार्थज्ञानहेतुत्वेन तदभावे तदयोगादित्याह-प्रकृतेति। वाक्यार्थज्ञानं वा किमर्थमित्यत आह-नहीति / प्रत्यग्ब्रह्मक्याविद्यानिवृत्तिलक्षणस्य मोक्षस्य तद्विषयवृत्त्येकसाध्यत्वात् सदभावे मोक्षो न स्यादित्यर्थः / वाक्यार्थज्ञानस्यैव मोक्षहेतुत्वे वृहन्नारदीयवचनमुदाहरति-तदाहेति / उपनिषदेकगम्यब्रह्मनिश्चयस्योपनिषन्मात्राधीनत्वात् तवा यासो वृथेत्याशङ्क्याह-तच्चेति / ईश्वर एव नेति मीमांसकास्तत्स्वरूपे विप्रतिपन्नाः वैशेषिकादयस्तु सगुणस्तत्राप्यष्टगुण इति प्रकारे विप्रतिपन्नाः, अर्वाचीनास्त्वानन्दाद्यनेकगुणक इति। तत एषां विप्रतिपत्तिनिरासेन सच्चिदानन्दात्मकनिविशेषब्रह्मणि उपनिषदां तात्पर्यावगमसंभवेन ताभिस्तन्निश्चयाद् वादिविप्रतिपत्तिनिरासेनोपनिषदां निर्विशेषे ब्रह्मणि तात्पर्यवर्णनायास्मत्प्रवृत्तिचितेति भावः / ननु मानान्तरादपि ब्रह्मनिश्चयोपपत्तेरुपनिषत्तात्पर्यावगमो वा किमर्थ इत्याशक्य तस्य मानान्तरगोचरत्वं श्रुत्यैव निवारितमित्याह-औपनिषदत्वेति / ब्रह्मणो मानान्तरागोचरत्वमुपपादयितुं तत्र तावत् प्रत्यक्षं निराकरोति-न तावदिति / सिद्धान्ते