SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ 259 तृतीयः परिच्छेदः तत्रेन्द्रि यादपरोक्षज्ञानं शब्दाद वेति विवेचनीयम, यदीन्द्रियं सज्जनकं तदा वाक्यं व्यर्थम् / ततश्च वाक्यश्रवणाय यत्नो न स्यात् / वाक्यार्थज्ञानसहकृतमिन्द्रियं तद्धतुरिति चेत् ? न, वाक्यार्थज्ञानं विनापि क्वचिद्दर्शनेन व्यभिचारिणि तत्र तस्याहेतुत्वात् / शाब्दसाक्षात्कारश्च न शब्दव्यभिचारी। - अथ विशिष्टज्ञाने विशेषणज्ञानतया वाक्यार्थज्ञानमपि तत्र हेतुरिति चेत्, तहि दशम इत्येतावन्मात्रश्रवणेऽपि विशिष्टधीप्रसङ्गः / प्रकारान्तरेण तज्ज्ञानेऽपि स्वस्मिन् दशमत्वज्ञानाभावाच्च / तस्माद् वाक्यादेव तत्रापरोक्षानुभवः। एवं रत्नतत्त्वादावपि / ततः 'तत्त्वमसि' वाक्यार्थविषयज्ञानमपरोक्षम् अविद्या. निवर्तकत्वात् संप्रतिपन्नवत् / न चासिद्धिः, तदन्यस्याभावेन तस्यैव तन्निवर्तकत्वात् / मनसः ब्रह्मसाक्षात्कारजनकत्वनिरासः यत्तु ध्यानपरिपाकसहकृतमनस एवात्मसाक्षात्कार इति तन्न, मनसोऽकरण किमिन्द्रियमानं तज्जनकम, उत, उपदेशसहकृतम् ? अद्ये दोषमाह-यदीति / द्वितीयं शङ्कते-वाक्यार्थेऽति / उपदेशं विनापि- घटादावेन्द्रियकज्ञानदर्शनेन तत्र तस्यानियतत्वात्, रासभादिवत् तस्येन्द्रियसहकृतत्वमयुक्तम् इति परिहरति-न वाक्येति / तहि साक्षात्कारस्यापि शब्दं विना दर्शनात् तत्रापि तस्य हेतुता न स्यादित्याशक्य चक्षुरादिवत्तस्य साक्षात्कारविशेषनियतत्वाद्धेतुतेत्याह-शाब्देति / दशमत्वविशिष्टज्ञानस्येन्द्रियजत्वेऽपि तज्जनकविशेषणज्ञानाय' वाक्यापेक्षेति शङ्कते-अथेति / विशेषणज्ञानस्य पदमात्रेणापि संभवात् तावता विशिष्टधीप्रसङ्गेन वाक्यवैय्यर्थ्यापात इत्यभिप्रेत्याह-तीति / किञ्च स्मरणादिरूपे दशमत्वज्ञाने सत्यपि दशमोऽहमिति साक्षात्काराभावात् तस्योपदेशजन्यत्वमावश्यकमित्याह-प्रकारान्तरेणेति / / परोक्तदृष्टान्तोऽप्यसंप्रतिपन्न इत्याह-एवमिति / इन्द्रियव्यापारे सत्यपि रत्नतत्त्वसाक्षात्कारानुदयादुपदेशज एव स इत्यर्थः / पूर्वानुमानेन परोक्षत्वनिषेधमुखेनापरोक्षत्वं साधितम्, सम्प्रति साक्षादेव साधयति-तत इति / तत्त्वमादिवाक्यजज्ञानस्याविद्यानिवर्तकत्वमसिद्धं वाक्यान्तरजज्ञानेन तददर्शना'दित्यत आह-न चेति / तदन्यस्येति / वाक्यजज्ञानादन्यस्य ब्रह्माज्ञाननिवर्तकत्वाभावेनेत्यर्थः। मानससाक्षात्कारस्य मूलाज्ञाननिवर्तकत्वात् कथमन्यस्याभाव इत्येतदनूद्य दूषयति-यत्त्वित्यादिना / अकरणत्वादिति / कामः संकल्प इत्यादिना मनसो बुद्धयादिपरि
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy