________________ सटीकाद्वैतदीपिकायाम् जीवेश्वरभेदे श्रुतिप्रामाण्यं चारः / श्रुतिश्च जीवेश्वरयो दे प्रमाणं द्वा सुपर्णेत्याद्या / स्मृतिश्च यथेश्वरश्च जीवश्च सत्यभेदौ परस्परम् / सूत्राणि च 'शारीरश्चोभयेऽपि हि भेदेनेनमधीयते' इत्यादीनि / न च प्रत्यक्षप्राप्तानुवादोऽयम् / प्रत्यक्षस्य प्रामाण्यसिद्धौ तेनैव भेदसिद्धः। तदसिद्धौ प्रत्यक्षस्यैक्यश्रुतिविषयापहार इव भेदश्रुतिविषयापहारेऽप्यशक्तत्वात् / ___प्रत्युत भेदश्रुतेरेव निगमनवत् तत्त्वमसीति नवकृत्वोऽभ्यासवत्, पिपासितस्यैकजलविषयशब्दलिङ्गप्रत्यक्षरूपप्रमाणसंप्लववत्, त्वत्पक्षे प्रत्यक्षसिद्धभावरूपाज्ञाने तम आसीदिति श्रुतिवत्, श्रुतेरैक्यतात्पर्ये षड्विधतात्पर्य लिङ्गवच्च, प्रत्यक्षानाश्वासनिरासेन दाढर्थित्वात् / अग्न्यौष्ण्यप्रत्यक्षस्य प्रामाण्यानिश्चये "अग्निहिमस्य भेषजम्" इत्यनुवादो न स्यात् / कि च भेदश्चतेर्भेदप्रत्यक्षानपेक्षत्वान्न सापेक्षानुवादत्वम् / निरपेक्षानुवादत्वं तु धारावाहिकज्ञान इव नाप्रामाण्यहेतुः। उक्तं हि नयविवेके-सापेक्षानुवादे हि न प्रतीतिर्न दवादनुवादे धारावाहिकवदिति। त्वात्सोऽपि समर्थ इति चाच्यम् / यत्कारण नुभयेऽपि काण्वा माध्यन्दिनाश्चैनं शारीरं परस्माद्भदेनाधीयते / यो विज्ञानमन्तरो यमयतीत्यन्तर्यामिनियम्यत्वेनैनमामनन्ति काण्वाः, य आत्मानमन्तरो यमयतीति माध्यन्दिना इति सूत्रार्थः। आदिपदेन “गुहां प्रविष्टावात्मानौ” इत्यादि परिगृह्यते / ननु द्वासुपर्णेत्यादिश्रुतेः 'अग्निहिमस्य भेषजम्' इतिवदनुवादत्वान्न भेदे तात्पर्यमिति नेत्याह-न चेति / किं पूर्वभावि प्रत्यक्षं प्रमाणमुत न? आद्ये आह- प्रत्यक्षस्येति / द्वितीये श्रुतार्थस्य मानान्तरापूर्वत्वाच्छु तिस्तत्परवेत्यभिप्रेत्याह-तदसिद्धाविति / श्रुतेरनुवादत्वेऽपि भेदप्रत्यक्षदाार्थहेतुत्वान्मदिष्टसिद्धिरिति सनिदर्शनमाहप्रत्युतेति / निगमनवदिति / यथा निगमनावयवो मानान्तरबाधशङ्कानिरासेनानुमानदाार्थ एवमित्यर्थः / पिपासितस्येति। तृषार्तस्यानभ्यस्तजले प्रथमप्रवृत्तप्रमाणदााय प्रमाणान्तरप्रवृत्तिवदित्यर्थः / प्रत्यक्षसिद्धानुवादः प्रत्यक्षदायित्येतद्वयतिरेकमुखेनोपपादयति अग्न्यौष्ण्येति / ____ अपि च स्मृतिवत्सापेक्षानुवादत्वे निरपेक्षत्वलक्षणं प्रामाण्यं हीयेतापि / न चैतदस्ति /