________________ द्वितीयः परिच्छेदः बाध्ययद्धर्मिकाभेदाप्रतियोगि तत्तज्ज्ञानाबाध्यतत्प्रतियोगिकभेदवत् / यथा दूरस्थवनस्पत्योरेक इत्याद्यनमानेन तत्सिद्धेः। यद्वा ब्रह्म तत्त्वतो जीवाभिन्नं नेति साध्यम् / एवं च न साध्यबैकल्यशङ्काऽपि / त्वन्मतेऽपि कल्पिते घटे तात्त्विकभेदवत् तात्त्विकाभेदस्याप्यभावात् / न चान्तःकरणस्यैव दुःखानुभवितृत्वात्तदननु भवितृत्वं जीवेऽनकान्तिकमिति वाच्यम् / दुःखादेर्बन्धस्य मोक्षसामानाधिकरण्याय जीवस्थत्वात् / त्वदभिमतानर्थाभाव एव तेन विवक्षित इति न कश्चिद्दोषः। ___ न चासंसारित्वादेब्रह्मण्यसिद्धिः। जीवेनानकान्तिकत्वं वा / त्वन्मतेऽप्यौपाधिकश्यामत्वादिवत्तस्य व्यवस्थितत्वात् / एवं ब्रह्म स्वज्ञानाबाध्यजीवप्रतियोगिकभेदवत् / पदार्थत्वात् / घटवत् / जीवस्यापि जीवान्तराभिन्नत्वान्न व्यभि किं यत्र यद्विद्यते तद्विषथज्ञानत्वं प्रमात्वमुताबाधितार्थकत्वम् ? आद्य शनायादिमज्जीवज्ञानस्यापि प्रमात्वेन तदबाध्यतद्भदवत्त्वमिष्टमेव / द्वितीये तज्ज्ञानाबाध्यतत्प्रतियोगिकभेदवदिति सामान्यव्याप्तावपि ज्ञानपदेनाबाधितार्थज्ञानमेव वक्तव्यम्। तच्चासिद्धम् / ब्रह्मव्यतिरिक्तस्य सर्वस्य वाध्यत्वादित्यरुचेराह-यद्वति / अद्वैतमते जीवघटयोरप्यभेदात्साध्याप्रसिद्धिरत्रापीत्याशक्य कल्पिताकल्पितयोस्तात्त्विकाभेदाभावस्तवापि संमत इत्याह-एवं चेति / सिद्धान्तिमतेनाऽऽद्यहेतोयंभिचारशङ्कां निराकरोति-न चेति / जीवस्यैव मोक्षान्वयित्वेन दुःखादिबन्धोऽपि तत्रैव वक्तव्यः / तथा च न तत्र हेतुरित्याहदुःखादेरिति / ननु जीवे कल्पित एव दुःखादिबन्धो न वास्तव इत्याशङ्कय तर्हि कल्पितस्याभाव एव हेतुरित्याह--त्वदभिमतेति / ननु जीवस्य संसारित्वे तदभिन्नब्रह्मणोऽप्यसंसारित्वं न स्यादित्यसिद्धिः / तस्यासंसारित्वे तदभिन्नजीवस्यापि तदिति व्यभिचारो वेत्यत आह--न चेति / प्रतिबिम्ब नुखश्यामत्वस्यौपाधिकत्वेऽपि बिम्वेऽभावात् / बिम्बगतावदातत्वस्य प्रतिबिम्बेऽभावाद्यथाकल्पितभेदेन तयोर्व्यवस्था / एवं संसारित्वासंसारित्वादेरिति तवाभिमतत्वादित्यर्थः / केवलान्वयिहेतुमप्याह-एवमिति / मिथ्याभेदेन सिद्धसाधनतावारणाय स्वज्ञानाबाध्येत्युक्तम् / स्वशब्द: समभिव्याहृतपरः। जीवे जीवप्रतियोगिकभेदाभावाद् व्यभिचारमाशङ्कयाह-जीवस्यापीति / अनुमानदााय श्रुति स्मृति च प्रमाणयति-श्रुतिश्चेति / आदिपदेन “य आत्मानमन्तरो यमयति" 'ऋतं पिवन्तौ" इत्यादिः संगृहीता / श्रुत्यपेक्षितन्यायसूचकानि सूत्राण्युदाहरति-सूत्राणि चेति / यः पृथिवीमन्तरो यमयतीत्यादिवाक्येषु श्रूयमाणोऽन्तर्यामी जीव एवेति शङ्कानिरासायेदं सूत्रम् / “न च स्मार्त्तमतद्धर्माभिलापात्" इति पूर्वसूत्रान्नानुवर्तते / तथा च शारीरश्चान्तर्यामी न भवति / तस्य पृथिव्यादिनियमने सामर्थ्याभावात् / न च समर्थेश्वराभिन्न