________________ सटीकाद्वैतदीपिकायाम् धर्मिशब्दस्य पित्रादिशब्दवत्संवन्धिशब्दत्वान्मिथ्यात्वं प्रति मिभूतशुक्तिरूप्यसमानसत्ताकभेदेन न सिद्धसाधनम् / न हि माता पूज्येत्युक्ते स्वसुतमाता भार्या पूज्यते / मिपदस्थाने स्वपदं वाऽस्तु। सत्तात्रंविध्यमतेऽपि ब्रह्मणि बाधाभावरूपायाः सत्तायास्तदुपलक्षितस्वरूपाया वा सत्त्वान्न बाधः। यद्वा मिसत्तासमानसत्ताकेति पदस्थाने पारमाथिकेतिवा, यावत्स्वरूपमनु वर्तमानेति वा, स्वाज्ञानकार्यप्रतीत्यविषयेति वा, स्वज्ञानाबाध्येति वा विशेषणंदेयम् / स्वशब्दस्य समभिव्याहृततत्तत्परत्वस्य व्युत्पन्नत्वान्न कश्चिद्दोषः // न चाये साध्ये दृष्टान्तस्य साध्यविकलता। घटो जीवप्रतियोगिकप्रतियोगिज्ञानाबाध्यमेदवान् / जीवर्मिकर्मिज्ञानाबाध्याभेदाप्रतियोगित्वात् / यद्यज्ञानातदवस्थमित्यरुचेराह-धर्मीति / स्वशब्दस्य समभिव्याहृतयोग्यपरत्वान्नोक्तदोष इति भावः / नन्वद्वैतमते ब्रह्मण एव सत्तारूपत्वात्तत्समानसत्ताया ब्रह्मान्तरत्वात्तदभावाद्वाध इत्यत आह-सत्तात्रैविध्येति / तदुपलक्षितेति / ब्रह्मणोऽपि बाधाभावोपलक्षितस्वरूपोपपत्तेर्न बाध इति भावः। नन्वत्र समानशब्देन सादृश्यं किं विवक्षित मुतैक्यम् ? / नाद्यः / व्यावहारिकभेदसत्ताया अपि सद्व्यवहारानुकूलत्वेन ब्रह्मसत्तासदृशत्वात्सिद्धसाधनापत्तेः / न द्वितीयः। भेदे ब्रह्मसत्तयैव सद्व्यवहार इति सिद्धान्तेऽप्यङ्गीकारादित्यरुचेराह-यद्वेति / स्वाज्ञानकार्येति / अज्ञानकार्यप्रतीतिर्धान्तिः तदविषयत्वे साधितेऽर्थात्पारमार्थिकत्वसिद्धिरिति भावः। तत्र स्वपदं घटादौ साध्याप्रसिद्धिवारणाय / स्वज्ञानाबाध्येति / भेदस्य ब्रह्मज्ञानाबाध्यत्वे सत्यत्वमेव सिध्यति / अत्रापि स्वपदकृत्यं पूर्ववदेव / स्वशब्देन घटादेरप्यभिधानात्सिद्धसाधनमित्याशङ्क्याह-स्वशब्दस्येति / / न च घटादौ पारमार्थिकभेदवत्त्वमसिद्धमिति शक्यम् अनुमानान्तरेण सिद्धत्वादित्याह-न चाद्ये इति / घटे पटप्रतियोगिकभेदवत्त्वेन सिद्धसाधनतावारणाय जीवेति / घटो जीवप्रतियोगिकभेदवानित्युक्ते व्यावहारिकभेदेन सिद्धसाधनता, तन्निबृत्त्यर्थं प्रतियोगीत्यादि / जीवप्रतियोगिकभेदस्य प्रतियोगिभूतात्मज्ञानाबाध्यत्वे पारमार्थिकत्वसिद्धिरिति भावः / जीवर्धामको धर्मिज्ञानाबाध्यो योऽयमभेदो जीवे जीवाभेदस्तदप्रतियोगित्वादिति हेत्वर्थः / घटस्य स्वज्ञानाबाध्यस्वाभेदप्रतियोगित्वादसिद्धिवारणाय जीवधमिकेत्युक्तम्। घटस्य जीवर्मिकारोपिताभेदप्रतियोगित्वादसिद्धिवारणायाबाध्येत्युक्तम् / सामान्यव्याप्तौ साधनवैकल्यपरिहाराय धर्मिज्ञानेत्युक्तम् / विशेषसाध्याप्रसिद्धः सामान्येन व्याप्तिमाह--यद्यज्ज्ञानेति / प्लक्षस्य न्यग्रोधर्मिकारोपिताभेदप्रतियोगित्वेऽपि न्यग्रोधज्ञानाबाध्यतदीयाभेदाप्रतियोगित्वमेवेत्यभिप्रत्य दूरस्थेत्युक्तम् / / प्रतियोगिज्ञानावाघ्यभेदवानित्यत्र किं प्रतियोगिज्ञानं भ्रान्तिरूपं विवक्षितमुत प्रमारूपम् ? / नाद्यः / जीवविषयभ्रान्तिज्ञानाबाध्यतत्प्रतियोगिकभेदस्येष्टत्वात् / द्वितीये