SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः - नन्वन्तःकरणविशिष्टस्य परस्मादिः प्रतीयते स ममापीष्टः / यश्च नेष्टः शुद्धचैतन्यस्य परस्माद्भदः सोऽत्र न भातीतिचेत्, न। योऽहमस्वाप्स, यस्य. ममाज्ञानं संसारश्च सोऽहं निर्दु:खाद् भिन्न इत्यज्ञानसंसारयोराश्रयस्यैव ततो भेदावगमात् / संसाराध रानाधारयोरेव हि भेदे आवयोविवादः नतु चैतन्यस्य चैतन्या दे ईश्वरस्यापि जीवादे-"ममैवांशो जीवलोके"-इत्यादितद्वचनानु मितं तदीयप्रत्यक्षं प्रमाणम् / जोवेशभेदे-अनुमानम् अनुमानमपि जीवब्रह्मभेदे प्रमाणम् / ब्रह्म जीवप्रतियोगिकर्मिसत्तासमान जीवो ब्रह्मप्रतियोगिकर्मिसत्तासमानसत्ताकभेदवान् / असर्वज्ञत्वात्, असर्वशक्तित्वात अस्वतन्त्रत्वाच्च / घटवत् / अत्र जीवब्रह्मशब्दाभ्यां-त्वन्मते तत्त्वमसीत्यत्र तत्त्वम्पदाभ्यां 'जीवाः परमात्मनस्तत्त्वतो न भिद्यन्ते'इत्यत्र च जीवपरमात्मशब्दाभ्यां येविवक्षिते संसाराधारानाधारचैतन्ये, ते एबात्रापि विवक्षिते इति न सिद्धसाधनम् / ... भेदप्रत्यक्षमङ्गीकृत्य तच्छ्र तिप्रतिपाद्याभेदाविरोधीत्यभिप्रेत्य शङ्कते--नन्विति / सुषुप्त्यज्ञानाश्रयस्य परस्माद्भेदः प्रतीयते। स च तव निष्कृष्टाहङ्कारचिन्मात्रमेव / तथा च कथं न प्रत्यक्षविरोध इत्याह--न योऽहमिति / ननु तथापि चिन्मानं चिन्मात्राद्भिन्न प्रत्यक्ष प्रमाणम् / न च यत्र मानाभावः। अंशांशिभावेन भेदाभिधायितद्वचनमूलत्वेन तबनुमानादित्याह--ईश्वरस्येति / प्रत्यक्षादिभिरित्यादिशब्दोपात्तमनुमानं तावदाह--अनुमानमपीति / जीवप्रतियोगिको यो धर्मिसत्तासमानसत्ताको भेदस्तद्वदित्यर्थः / जीवप्रतियोगिकभेदवदित्युक्ते मिथ्याभेदेनार्थान्तरता स्यात् तद्वारणाय धर्मीत्यादि / तावत्युवते घटादिभेदेनार्थान्तरता / तदर्थं जीवप्रतियोगिकेति / जीवप्रतियोगिकब्रह्मर्मिकभेदस्य धर्मिसमानसत्ताकत्वं सत्यत्वं विना न सिध्यतीति भावः। असिद्धिवारणाय दुःखपदम् / दुःखानुभवो दुःख्यहमिति ज्ञानं तदभावश्च सर्वज्ञेपीश्वरेऽस्तीति नासिद्धिः। जीवप्रतियोगिकब्रह्मर्मिकभेदस्य सत्यत्वं प्रसाध्य ब्रह्मप्रतियोगिकजीवर्मिकभेदस्य तत्साधयति--जीव. इति / विशेषणकृत्यं तु पूर्ववदेव / ननु जीवब्रह्मपदवाच्ययोमिसमसत्ताकभेदाङ्गीकारासिद्धसाधनमित्यत आह-अत्रेति / 'जीवाः परमात्मनस्तत्त्वतो न भिद्यन्ते आत्मत्वात् : परमात्मवत्' इत्याचार्यानुमानमभिप्रेत्याह-जीवा इति / विवक्षिते एवाह संसारेति / धमिशब्दस्य प्रकृतधर्माश्रयपरत्वान्न शुक्तिरजतसमसत्ताकभेदेन सिद्धसाधनमित्याहधर्मीति / ननु शुक्तिरजतादेः प्रकृतजीवप्रतियोगिकभेदं प्रत्यपि धर्मित्वात्सिद्धसांधनं
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy