________________ सटीकाद्वैतदीपिकायाम् अथास्य परस्माद्विभागः परीक्ष्यते। तत्र जीवपरयोः स्वाभाविको भेदः पारमार्थिक इति केचित् / औपाधिकः पारमार्थिक इत्यन्ये / औपाधिकोऽनिर्वचनीय इति भगवत्पादीयमतानुसारिणः। जीवेशभेदे पूर्वपक्षः-प्रत्यक्षेण भेदग्रहणम् - ननु यद्यत्र प्रमाणतः प्रतीयते तत्तत्र सद् विपरीतं त्वसदिति स्थितिः जीवे च परस्माद्धदः प्रत्यक्षादिभिः प्रतीयते। .. तथाहि-तत्र नवीनः-प्रत्यक्षं तावज्जीवब्रह्मणोर्भेदे प्रमाणम् / नाहं सर्वज्ञो, नाहं निदुःख इत्यनुभवात् / न च ब्रह्मणोऽप्रत्यक्षत्वात्तद्भेदोऽप्यप्रत्यक्ष इति वाच्यम् / यत्र हि यत्सत्त्वमनुपलब्धिविरोधि तत्र तदभावः प्रत्यक्षः। न तु प्रतियोगिप्रत्यक्षत्वमभावप्रत्यक्षत्वे तन्त्रम् / जलपरमाणौ पृथिवीत्वाभावस्य प्रत्यक्षत्वप्रसङ्गात / स्तम्भः पिशाचो न भवतीति प्रत्यक्षप्रतीतेश्च / प्रतीत्यनुसारेण हि प्रयोजकं कल्प्यभ् / अन्यथा जीवेश्वराभेदश्रुतेरप्रसक्तप्रतिषेधकत्वं स्यात्, तद्भदश्रुतेश्च त्वदुक्तप्रत्यक्षप्राप्तानुवादकत्वमपि न स्यात् / वस्तुनि मूकमपि मां वाचालयन्ति पटुतरबहुभाषिणं कुर्वन्तीति यत् इदं चित्रमित्यर्थः / जीवस्वरूपनिरूपणानन्तरं तस्येश्वराद्भदो विचार्यते इति प्रतिजानीते-अथेति / तदङ्गत्वेन वादिविप्रतिपत्तिं दर्शयति-तत्रेति / वादिनां मध्ये इत्यर्थः / स्वाभाविक इति / अनौपाधिक इत्यर्थः / 'भास्करादिमतमाह औपाधिक इति। अतिरेकाधुपाधिप्रयुक्त इत्यर्थः / सिद्धान्तमाह-औपाधिक इति / अविद्यान्तःकरणाद्युपाधिनिबन्धन इत्यर्थः / / अत्र पूर्वपक्षी जीवेश्वरभेदः सन्नेवेति वक्तु सामान्यतः सत्त्वासत्त्वप्रयोजकमाहननु यतीति / ततः किम्?, तत्राह-जीवे चेति / - "मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति" इत्यादिना भेददर्शनस्य बहुशो निन्दितत्वात् पूर्वपक्षत्वेनापि भेदस्थापनमनुचितमेवेति मन्वानः पूर्वपक्षं नवीनमुखत एव -... ननु प्रतियोगिप्रत्यक्षत्वमभावप्रत्यक्षत्वे तन्त्रम् / अन्यथा घटे जलपरमाण्वभावः प्रत्यक्षः स्यात् / तथा चाप्रत्यक्षब्रह्मभेदो न प्रत्यक्ष इति नेत्याह--न चेति / अभावप्रत्यक्षत्वे तावदन्यदेव प्रयोजकमित्याह--यत्र हि यत्सत्त्वमिति / तर्कितमिति शेषः / प्रतीयोगिप्रत्यक्षत्वं त्वन्वयव्यतिरेकव्यभिचारान्न प्रयोजकमित्याह--नत्विति / प्रतो यनुसारेणेति / तदव्यभिचारेणेत्यर्थः / तथा च जीवे ब्रह्मतादात्म्यमनुपलब्धिविरोधीति तदभावः प्रत्यक्ष इति भावः / तत्प्रत्यक्षत्वानङ्गीकारे सिद्धान्ते बाधकमाह-अन्यथेति / ...