________________ // श्रीगणेशाय नमः॥ श्रीनृसिंहाश्रमविरचिता अद्वैतदीपिका श्रीनारायणाश्रमविरचिताद्वैतदीपिकाविवरणाख्यटीकासहिता द्वितीयः परिच्छेदः नरहरिवपुषा यो दारयन् दानवोरः प्रकटयति पुमर्थोऽभेददृष्टावितीशः॥ निजगुणमयमायामात्रमात्राविमेदो। गुरुतरदयया मां पातु लक्ष्मीसहायः॥१॥ जगन्नाथाश्रममुनेश्चित्रं चरणरेणबः। वाचामगोचरेऽप्यर्थे मूकं वाचालयन्ति माम् // 2 // सार्थानि वेदान्तवचांसि येन, यो हिरण्यविद्विट् च सुदर्शनाश्रयः॥ प्रल्हाद उत्सर्पति यस्य चिन्तया स मे नृसिंहो यतिराट् सदा परा गतिः॥१॥ ___ अतीतपरिच्छेदे लाघवाद्युपोलितानुमानादिनाऽहमतिरिक्त एकः कूटस्थो निविशेषश्चिद्रूपः सिद्ध आत्मेत्युक्तम् / तदयुक्तम् / जीवेश्वरयोः जीवानां च परस्परभेदग्राहकप्रत्यक्षादिप्रमाणविरोधेन लाघवानवतारादित्याद्याक्षेपनिरासाय भेदमिथ्यात्वं निरूपयितुं परिच्छेदान्तरमारभमाणस्तदर्थं प्रदर्शयन् श्रीनृसिहं प्रार्थयते नरहरीति / नरसिंहात्मकरूपमास्थाय सर्वदा स्वस्मृतिमतो हिरण्यकशिपोरनर्थहेतुशरीरबन्धमुत्पाटयन् नृसिंहपदलक्ष्यतत्त्वंपदार्थाभेददृष्टौ चाशरीरत्वाख्यमोक्षो भवतीति यः प्रकटयति स इति द्रष्टव्यम् / अभेदप्रमैव पुरुपार्थहेतुरिति मन्वानो भेदमिथ्यात्वमाहनिजेति / निजा अनादिसिद्धा गुणमयी गुणात्मिका या मायाऽनिर्वचनीयाज्ञानं तन्मात्रस्तदधीनसत्ताकः प्रमात्रादिभेदो यस्मिन् स तथोक्त इत्यर्थः / बहवादिसम्मतभेदभङ्गेनाद्वैतस्थापनसामर्थ्य गुरुचरणसेवयैव प्राप्तमिति द्योतयन् गुरु महीकरोति-जगन्नाथेति / 'यतो वाचो निवर्तन्ते' इतिश्रुतेः शब्दाऽनभिधेयेऽपि