________________ औपनिषदात्मदीपो नाम तृतीयः परिच्छेदः उपनिषदवबोधं बोधमानन्दकन्दं निजगुणगणकान्तं कान्तमम्भोजयोनेः / परिहृतपरसत्त्वं सत्त्वमेतस्य मूलं नरहरिवपुरंशं धाम कामं प्रपद्ये // 1 // यः संशुद्धगुहाहिताद्वयवपुर्यो वादिदैत्यद्विपस्वान्तत्रासनगजितेनिजजनानन्दाब्धिसंबर्द्धकः / योऽखण्डं भजतेऽनिशं हरिपदं मूढा न यज्जानते सोऽस्मान् सत्कविभिः प्रगीतमहिमा पायान्नसिंहो गुरुः॥ तत्पदार्थपरिशोधनाय परिच्छेदान्तरमारभमाणस्तदर्थ संक्षेपतो दर्शयन् परमेश्वरं प्रणमति-उपनिषदिति / ऐशमीश्वररूपं मुमुक्षुभिः काम्यत इति कामं, धाम ज्योतिः, प्रपद्ये प्रणौमीति प्रथममन्वयः / तस्य भौतिकज्योतिष्ट्वं व्यावर्तयितुं तस्य चिद्रूपतामाहबोधमिति / तस्य मुमुक्षुभिः काम्यत्वे हेतुमाह-आनन्देति / आनन्दस्यास्मदादिनिष्ठस्य मूलं बिम्बभूतमिति यावत् / किमेतस्यापि मूलमानन्दात्मकमस्ति नेत्याह-निजेति / निजैः स्वाभाविकैर्गुणवत्प्रतीयमानैर्ज्ञानानन्दादिभिः कान्तं कमनीयं श्रेष्ठमानन्दादीनां स्वरूपत्वेऽपि प्रतिभासतो धर्मत्वमुक्तं टीकाकृद्भिः “आनन्दो विषयानुभवो नित्यत्वं चेति सन्ति धर्माः अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्त" इति / किमेतादृशं नमस्कायं हिरण्यगर्भाख्यं जगत्कारणं नेत्याह-कान्तमिति / अम्भोजयोनेर्जगत्स्रष्टुहिरण्यगर्भस्यापि कान्तं पति नियन्तारम् / एवं तर्हि भेदः प्राप्त इत्यत आह-परिहृतेति / परिहृतं निराकृतं परस्य स्वातिरिक्तस्य सत्वं येन तत्तथा। भेदादेर्जडस्य स्वतः सत्त्वाभावेन नाद्वैतक्षतिरिति भावः। नन्वेवं सति घटः सन्नित्याद्यनुभवविरोधः, तत्राह-सत्त्वमिति / एतस्य जमत उपादानपतं सत्वम्, तथा च घटः सन्नित्यादिरूपेण उपादानसत्तैव प्रतीयते न तदतिरिक्तव जडसोति भावः। ननु चिदानन्दादिरूपेश्वरस्याद्वितीयत्वे कथं नमस्कार्यतेत्याशक्य घृतकाठिन्यन्यायेन नरसिंहाकारलीलाविग्रहमापन्नस्य नमस्कार्यता घटत इत्याह-नरहरीति / उक्तरूपेश्वरे किं मानमित्यत आह-उपनिषदवबोधमिति / उपनिषद्भिरेवाववोधो यस्य धाम्नः तत्तथा / तथाहि "तं त्वौपनिषदं पुरुषं पृच्छामि" / नावेदविन् मनुते तं वहन्तं" 28