SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ 214 सटीकातदीपिकायाम पानपेक्षत्वात् / तदुक्तं सर्ववस्तु ज्ञाततयाऽज्ञाततया वा साक्षिचैतन्यस्य विषय इत्यादि। चिन्मात्रविषयाधारमज्ञानं भेदविभ्रमे। हेतुर्दर्पणवत्तस्य निवृत्तौ कृतकृत्यता // 1 // यन्मायया पृथग्भूतः सदानन्दकविग्रहः।। हरिरप्यहमीशानं तं भजे पुरुषोत्तमम् // // इति श्रीमत्परमहंसपरिव्राजकाचार्यभगवज्जगन्नाथाश्रमश्रीचरणशिष्यश्रीमन्नसिंहाश्रमकृताद्वतदीपिकायां विभागप्रक्रियाख्यो द्वितीयः परिच्छेदः समाप्तः। परिच्छेदप्रमेयं संहरति श्लोकेन-चिन्मात्रेति / भेदभ्रमादिसकलानर्थहेतावनिर्वचनीयाज्ञाने सिद्ध फलितमाह-तस्येति / अनर्थहेतोरज्ञानस्य तत्त्वज्ञानेन निवृत्तावप्रतिबद्धस्वाभाविकब्रह्मभाव एव परिशिष्यते इत्यर्थः / एतादृशाज्ञाननिर्वतकज्ञानमीश्वरभजनेन विना न भवति / जीवस्य वस्तुत ईश्वरात्मत्वेऽपि मायिकभेदेनानीश्वरत्वाभिमानात्तद्भजनोपपत्तिः / तथा च स्मृतिः- . भयं द्वितीयाभिनिवेशतः स्यादीशत्वमेतस्य विपर्ययः स्मृतिः। तन्माययाऽतो बुध आभजेत्तं भक्त्यैकयेशं गुरुदेवतात्मा / / इत्येतद् द्योतयन् ईश्वरं भजते--यन्माययेति / वस्तुतः सच्चिदानन्दविग्रहो हरिरप्यहं यन्मायया पृथग्भूतस्तं भजे इत्यर्थः / इति श्रीमत्पर महंसपरिव्राजकाचार्यभगन्नृसिंहाश्रमपूज्यपादशिष्यनारायणश्रमविरचितेऽद्वतदीपिकाविवरणे द्वितीयः परिच्छेदः समाप्तः /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy