SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 213 कार्यकारणभावावश्यंभावात् / अन्यथा वह्निज्ञानादज्ञातधूमस्य धूमे जिज्ञासा प्रसङ्गात् / वहनिः सामान्यं धूमस्य न भवतीति चेत् न तस्यापि व्यापकत्वात् / न द्वितीयः / इन्द्रियसनिकृष्टचन्द्रादिविशेषेतज्ज्ञानाभावस्य वक्तु मनचितत्वात, त्वयाऽप्यभ्युपेतत्वाच्च / तत्रापि न जानामीत्यज्ञानानु भवजिज्ञासयोर्दर्शनात् / अन्यथा वाच्यत्वाद वपि संशयादि न स्यादिति वाक्यार्थविवेके वक्ष्यमाणत्वाच्च / एतावरकालमपिदमित्थं नावैदिषमित्यज्ञातताऽनुसधानदर्शनाच्च / न च परबुद्धिस्थः सवि. शेषः कथं ज्ञातुं शक्यत इति वाच्यम् / अज्ञाततया साक्षिविषयत्वेऽज्ञानातिरिक्तर जन्यत्येव नियमो न स्वसमानविषयज्ञानजन्येति गौरवात् / ततश्च सामान्यसाज्ञादपि तदुपपत्तिरित्याशङ्यान्वयव्यतिरेकाभ्यां तयोः समानविषयत्वमावश्यकमित्याह-नचेत्यादिना / विपक्षे दण्डमाह-अन्यथेति / सामान्यज्ञानमेव विशेषजिज्ञासाहेतुरिति नोक्तातिप्रसङ्ग इति शङ्कते-वह्निरिति / ' तव मते व्यापकताव्यतिरेकेण सामान्यताया दुनिरूपत्वाइन्हेरपि सामान्यता किमिति न स्यादित्यभिप्रेत्याह--तस्यापीति / विशेषाकारेण ज्ञानं निषिध्यत इति पक्षं दूषयति-न द्वितीय इति / व्यक्तितदसाधारणधर्मातिरिक्तविशेषाभावात्तयोश्च विशेषत्वे दोषस्योक्तत्वादिति भावः / किं च चन्द्रव्यक्तेस्तदसाधारणधर्मप्रकृष्टप्रकाशत्वस्य च चक्षुषा ग्रहणेऽयुपदेशजनितप्रत्यक्षाभावे चन्द्रं न जानामीति तदज्ञानस्याप्यतुभवादज्ञाने ज्ञान नास्तीत्येतदयुक्तमित्याह--इन्द्रियेति / नन्वत्रापि चक्षुषा यज्ज्ञातं न तदज्ञानविषयः किं तु चक्षुषाऽनुपस्थितं चन्द्रपदवाच्यत्वाद्येव, तत्राह--अन्यथेति / चन्द्रत्वादिविशिष्टेऽज्ञानाभावे चन्द्रत्वं नाम काचिज्जातिस्तद्विशिष्टश्चन्द्रपदवाच्य इत्याप्तोपपदेशादिना वाच्यत्वस्यापि निश्चितत्वात् तत्राप्यज्ञानसंशयाद्यनुपषत्तिरिति चतुर्थे वक्ष्यत इत्यर्थः / किं चाज्ञाननिवृत्त्यनन्तरं तद्विषयस्याज्ञातत्वेन परामर्शो दृश्यते। तस्य च स्वसमानविषय पूर्वानुभवाभावादनुपपत्तेः पूर्वमज्ञाततानुभव आवश्यकः इत्यभिप्रेत्याह-एतावदिति / न च नेदं स्मरणं किन्त्विदानीमेव पूर्वकालीनाज्ञानानुभव इति वाच्यम् / विशिष्टाज्ञानस्येदानी प्रत्यक्षेणानुभवायोगात् / अनुमितौ च लिङ्गाभावात् / न तावदिदानी ज्ञातत्वं तत्र लिङ्गं तस्य पूर्वमज्ञानत्वाधिगमं विना दुर्ज्ञानत्वात् / न च पूर्वकालीनतयाऽस्मर्यमाणत्वेनाज्ञानं कल्य्यत इति वाच्यम् / तस्यान्यथोपपत्तिप्रतिसंधानदशायामपि पूर्वकालीनाज्ञातताप्रतिसन्धानदर्शनादिति भावः / यदप्युक्तं---परबुद्धिस्थविशेषस्य .ज्ञापकाभावात्तज्ज्ञानमसंभवीति, तन्निराकरोति-न चेति / नित्यसाक्षिणो ज्ञापकानपेक्षस्याज्ञाततयाअर्थप्रकाशनेज्ञानातिरिक्तापेक्षाभावादित्यर्थः / परबुद्धिस्थोऽपि विशेषोऽज्ञाततया साक्षिगम्य एवेत्यत्राचार्यसम्मतिमाह-तदुक्तमिति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy