SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ 212 सटीकाद्वैतदीपिकायाम् ननु ज्ञायमानस्य स्वाज्ञानविषयानुभवगोचरत्वं विरुद्धं न त्वन्याज्ञानानुभवगोचरत्वमिति चेन / न, न जानामीत्यनुभवगोचरस्यैव तद्वचावर्तकतया तदज्ञानविषयत्वात् / अन्यथा अन्य विषयानुभवगोचरस्याज्ञानस्यान्यविषयत्वे वह्नि न जानामीत्यनुभयमानाज्ञानस्यापि धमविषयत्वप्रसङात / नन सामान्य विशेषभावो नियामकः, अतो नातिप्रसङ्ग इति चेत् किमज्ञानविषय विशेषो व्यक्तिः, किं वा तनिष्ठासाधारणधर्मः ? / नाद्यः / त्वदुक्तार्थं सामान्यतो जानामीति तस्याः ज्ञानविषयत्वानुभवात् / इदं न जानामीत्यादौ च व्यक्तर्ज्ञानविषयत्वात् / न द्वितीयः / व्याप्यव्यापकभावातिरिक्ततस्य सामान्यविशेषभावस्य तयोरभावात् / तत्र चोक्तोऽतिप्रसङ्गः। द्रव्यं न जानामीत्यनुभूयमानाज्ञानस्यापि शब्दा. श्रयत्वादिविषयत्वप्रसाच्च / किं चाज्ञानविषयस्य तदा ज्ञानमात्रनिषेधः ? किं वा विशेषाकारेण?। नाद्यः। तज्जिज्ञासाऽसंभवात् / इच्छायाः स्वविषयज्ञानजन्यत्वात्। न च जिज्ञासा ज्ञानजन्या न भवति, तथा सति जिज्ञासायोगादिति वाच्यम् / इच्छामात्रस्य स्वविषयज्ञानजन्यत्वात्, अनुपस्थिते जिज्ञासाऽदर्शनाच्च / न च ज्ञाते जिज्ञासाया असम्भवः अविद्याविरोधिनः प्रवृत्त्यादिसमर्थप्रमाणज्ञानस्येष्यमाणत्वात्। न चेच्छाया ज्ञानजन्यत्मेव न स्वविषयज्ञानजन्यत्वं तच्चात्रापि सामान्यज्ञानमस्तीति वाच्यम् / भोजनज्ञानात्सुषुप्तीच्छाऽदर्शनेन तयोः सामान्यविषययोरेव द्वितीयेऽज्ञानानुभवविषयसामान्यस्य व्यक्तिगतासाधारणधर्मस्य च व्याप्यव्यापकभावातिरिक्तसंबन्धादर्शनात्स एव सामान्यविशेषभावः / ततश्च व्यापकावच्छिन्नाज्ञानं प्रति व्याप्यो विषय इति वह्नि न जानामीति बह्निविशेषिताज्ञानस्य धूमोऽपि विषयः स्यादित्याह--न द्वितीय इति / ननु सामान्यविशेषयोरेव व्याप्यव्यापकभावः सामान्यविशेषभावः, अतो नोक्तातिप्रसङ्ग इत्याशक्यातिप्रसङ्गान्तरमाह-द्रव्यमिति / शब्दाश्रयत्वादीत्यादिपदेन पृथिवीत्वादि गृह्यते / न च द्रव्यं न जानामीत्यज्ञानविषयत्वमिष्टमिति वाच्यम् / गन्धाश्रये पृथिवीत्वमित्यादिज्ञानादपि तन्निवृत्तिप्रसङ्गादिति भावः। यदप्युक्तं ज्ञानाभावेऽप्यज्ञानमित्येतद्भूषणमित्यादि तत्राह-कि चेति / अज्ञानविषयस्य प्रमेयत्वादिरूपेण ज्ञाय. मानत्वान्न ज्ञानमात्रनिषेधो युक्त इत्यभिप्रेत्याह-नाद्य इति / दूषणान्तरमाह---तज्जिज्ञानेति / अज्ञानविषयज्ञानाभावे तद्विषयज्ञानस्य दुर्जेयतया तदिच्छाऽनुपपत्तिरित्यर्थः / इष्यमाणज्ञाने सतीच्छायाः असम्भवात् जिज्ञामितज्ञानं न जिज्ञासाहेतुरिति शङ्कामपवदतिन चेति / इचलायाः स्वविषयज्ञानजन्यत्वमन्वयव्यतिरेकाभ्यामावश्यकमित्याह ---इच्छामात्रस्येति / अनुपस्थिते-अत्यन्ताज्ञाते / यदुक्तं ज्ञाते जिज्ञासाऽयोगादिति, तदयुक्तम् / आपातज्ञास्येच्छाहेतुत्वादन्यादृशज्ञानस्येष्यमाणत्वादित्याह--न चेति / नन्विच्छाज्ञान
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy