________________ द्वितीयः परिच्छेदः 211 एतेनाप्रकाशामार्थमेवाज्ञानाभ्युपगमात्प्रकाशमान इति विरोधादिति प्रत्युक्तम् / प्रकाशमान एव तदर्थ तस्यावश्यकत्वात् / यदप्यनवच्छिानन्दप्रकाशाभावादिति / किं तदाकारन त्तिप्रकाशो नास्ति किं वा तद्रूपचैतन्यप्रकाशोऽपि ? / नाद्यः। कारणाभानेन तस्येष्टत्वात् / न द्वितीयः। तस्येदानीमपि सत्त्वात् / अज्ञानात्पूर्णानन्दं जानामीति व्यवहारस्तस्य नेत्युक्तम् / यत्तु त्वदुक्तमथं न जानामीत्यत्रापि अनावृतसामान्यावच्छिन्नमेवानुभूयत इति तत्र न तावत्सामान्यं तदवच्छिन्नो वा न जानामीत्यनुभवविषयः तयोः त्वदुक्तार्थ सामान्यतो जानामीतिज्ञानविषयत्वानुभवविरोधात् / ज्ञानविषयस्यापि न जानामीत्यनुभवविषयत्वे किमपराद्धं ज्ञायमानेऽज्ञायमानत्वेन / त्सर्वमानन्दवादे निपुणतरमुपपादितमिति नेह प्रपञ्च्यत इति भावः। यदुक्तम्-ब्रह्माप्रकाशार्थमेवाज्ञानाभ्युपगमात्प्रकाशमान इति विरोधादिति, तदूषयति-एतेनेति / एतच्छब्दार्थमाह-प्रकाशमान इसि / स्वरूपतया प्रकाशमान एव हि ब्रह्मण्यनुभूयमानाप्रकाशमानत्व सिद्ध्यर्थमेवाज्ञानं कल्प्यम् / इतरथा प्रमाणवैकल्यादेव तदनवभाससिद्धेरज्ञानवैयर्थ्यादिति भावः। पूर्णानन्दप्रकाशस्यानुपलम्भात्स नास्तीत्युक्तमनूद्य विकल्पयति यदपीपि / वेदान्तश्रवणादेरभावात्तदधीनवृत्तिरूपप्रकाशाभाव इष्ट इत्याह-नाद्य इति / स्वरूपप्रकाशानुपलम्भात्मकाज्ञानस्यतेनैव स्फुरणान्न तदभाव इत्यभिप्रेत्याह-न द्वितीय इति / आनन्दप्रकाशोऽस्ति चेतद्व्यवहारोऽपि स्यादित्याशक्याह अज्ञानादिति / अज्ञानेन प्रतिबद्धत्वादित्यर्थः। अन्यदपि परोक्तं दूषयितुमनुवदति-यत्त्विति / तत्र किं ज्ञायमानत्वानुभवोऽज्ञाततयाऽनुभूयमानत्वविरोधी उत न ? / आद्य आह-न तावदिति / न द्वितीयः। विशेषरूपे वस्तुनि ज्ञातत्वेनानुभूयमानेऽज्ञाततयाऽनुभवाभावेन तयोविरोधात् / तथापि तयोरविरोधममन्वानं प्रत्याह-ज्ञानविषयस्येति / अज्ञानविषय एव ज्ञातत्वाज्ञातत्वानुभवो विरुद्धो न तदविषये सामान्य इति शङ्कते-नन्वित / अज्ञानानुभवे यदज्ञानविशेषणतया भासते, स एव ज्ञानविषयः। ज्ञानवदज्ञानस्यापि विषयनिरूप्यत्वात् / तत्र सामान्यमेव भासते चेत् स एवाज्ञानविषयः स्यान्न विशेष इत्याह-न न जानामीति / अज्ञानस्य स्वानिरूपकविषयत्वे बाधकमाह-अन्यथेति / सामान्यरूपिताज्ञानस्य विशेषो विषयः ततो नोक्तातिप्रसङ्ग इति शङ्कते-नन्विति / विशेषशब्दार्थ विकल्पयति-किमिति / परोक्तार्थव्यक्तेः प्रमेयत्वादिरूपेण ज्ञातत्वात् तस्या अज्ञानविषयत्वविरोधवादिनस्तवायुक्तमित्याह -नाद्य इति / व्यक्तरज्ञानानुभवविषयत्वादप्यज्ञानविषयत्वमयुक्तमित्यभिप्रेत्याह-इदमिति /