SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ 210 सटीकाद्वैतदीपिकायाम् प्रकाशत इत्यादिव्यवहारयोग्यत्वं अस्ति प्रकाशत् इति व्यवहारायोग्यत्वं वाऽऽवरणम् / न च तस्यारोपितत्वादावरणाधीनत्वम्। अविद्यावत् तस्याप्यनादित्वेन हेतोरनपेक्षत्वात् अविद्याधीनत्वाच्चाऽऽवरणं तत्कृत्यम् / न चैवं स्वप्रकाशत्वलक्षणविरोधः। चैतन्यावेद्यत्वस्य तस्य तदविरोधात् / नवोन निरासः कल्पितयोग्ताऽयोग्यत्वयोर्वास्तवापरोक्षव्यवहारयोग्यत्वाविरोधाच्च / सुखादिकं चानावृतसाक्षिण्यध्यस्तमित्युक्तम् / एकस्मिन्नप्यावृतत्वानावृतत्वेऽविरुद्ध यथानुभवं पदार्थस्वीकारादित्युक्तम् / न च स्वरूपप्रकाशकार्यप्रसङ्गः। किं तत्कार्यम् अविद्यानिवृत्तिः,नास्तीत्यादिव्यवहारविच्छेदो वा, अनवच्छिन्नानन्दोऽहमिति व्यवहारो वा, पुत्रादिक्षुद्रसुख भिलाषाभावो वा ? / न सर्वथाऽपि / अविरोधाच्चितो नाद्यावविद्याप्रतिबन्धतः / न तृतीयश्चतुर्थोऽपि नाप्राप्तत्वभ्रमो यतः। वाच्यमित्युक्तं दूषयति-न चेति / आवरणस्यानादित्वेन तदविद्याकृत्यमिति कथं तत्र तत्रोक्तमित्यत आह--अविद्येति / न च तस्यानादित्वे अविद्याधीनत्वं कथमिति वाच्यम् / स्वाज्ञानकाल एव सत्त्वात् “अनादि मायया सुप्तः" "अज्ञानेनावृतं ज्ञानम्" इति शास्त्रादज्ञानाधीनत्वमिति भावः। यदप्युक्तपुक्तावरणस्य स्वप्रकाशलक्षणविरुद्धत्वादसंभवीति, तदपवदति-न चैवमिति / तत्र तावत्स्वाभिमतलक्षणेनास्याविरोधमाह-चैतन्येति / अपरोक्षव्यवहारघटितलक्षणेनाप्यविरोधमाह-कल्पितेति / नास्ति इत्यादिव्यवहारयोग्यत्वस्यास्तीत्यादिव्यवहारायोग्यत्वस्य वा मिथ्यात्वेन वास्तवापरोक्षव्यवहारयोग्यस्वरूपेणाविरोधादित्यर्थः / यदपि चोक्तम्-सुखादिप्रकाशे कल्पितस्याप्यावरणस्यादर्शनात तदेव तद्विरुद्धमिति, तत्राह--सुखेति / अन्तःकरणोपधानेनाववरणस्य विरुद्धत्वात् तदुपहितचैतन्यात्मसुखादिप्रकाश आवरणासंभवेऽप्यनवच्छिन्नानन्दप्रकाशे तत्संभवतीति भावः / नन्वनवच्छिन्नब्रह्मणोऽप्यनावृतसाक्षिमात्रत्वात्तत्र कथमावरणमविरुद्धमित्याशङ्क्यानिर्वचनीयत्वादविरोध इत्युक्तमित्याह-एक स्मिन्निति / वह्नाववह्नित्वारोपेऽपि वह्निकार्यवदात्मन्यप्रकाशमानत्वारोपेऽपि स्वरूपप्रकाशकार्य स्यादित्युक्तमपवदति---न चेति / तत्र हेतुं वक्तुं तत्कार्य विकल्पयति–किं तदिति / अविद्या. तत्कार्ययोः स्वसाधकचैतन्यमात्रेणाविरुद्धत्वादविद्याया नास्तीत्यादिव्यवहारस्य च न तावन्मात्रान्निवृत्तिरित्याह श्लोकेन-अविरोधादिति / अनवच्छिन्नानन्दोऽहमिति व्यवहारस्तत्प्रकाशे सत्यायविद्यया प्रतिबद्धत्वान्न भवतीत्याह-अविद्येति / पूर्णसुखस्वरूपप्रकाशे सत्यप्यविद्यया तदप्राप्तिभ्रमवतः सुखार्थे पुत्राभिलाष उपपद्यत इत्याह-चतुर्थोऽपीति / एत
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy