SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 209 मानेऽप्यप्रकाशमानत्वं युक्तम् / तस्य तदविरोधात् त्वदुक्तमथं न जानामीति प्रकाशमान एवाप्रकाशमानत्वानुभवादिति वाच्यम् / अनवच्छिन्नब्रह्मानन्दाप्रकाशार्थमेवाज्ञानाभ्युपगमात् / प्रकाशमान इति विरोधात् / अनवच्छिन्नानन्दस्य प्रकाशाभावाच्च। त्वदुक्तमर्थं न जानामीत्यत्राप्यनावृतसामान्यावच्छिन्नमनुभूयते परचित्तगतार्थविशेषस्य ज्ञानासंभवात् / अज्ञानविषयत्वे प्रयोजकविचार: एवं च तद्विशेषसंशयं प्रति तत्सामान्य निश्चयस्येव तद्विशेषावच्छिन्नाज्ञानज्ञानं प्रति सामान्यज्ञानमेव हेतुः। तथा दर्शनात् / न हि विशेषे ज्ञाते तदज्ञानधीव॑ष्टा। सामान्यविशेषभावश्च नियामक इति नातिप्रसङ्गः। अज्ञातज्ञानाभावेऽप्यज्ञानज्ञानमित्येतद् भूषणमेव / अन्यथाऽज्ञानाभावात् / न चैवमज्ञानस्य विषयविशेषावच्छेदो न सिध्यतीति वाच्यम् / विशेषज्ञानानन्तरमेतावन्तं कालममुमर्थमित्थं नावेदिषमित्यनुभवान्तरात्तत्सिद्धः। तस्मान्न चिन्मात्रमज्ञानगोचरः। नापि जीवपरैक्यादि / तस्य चैतन्याद् भेदेऽद्वतहानेः। अभेदे चोक्तदोषादिति / मैवम् / नास्ति न रणाधीनत्वात् कल्पितभेदं प्रत्येतदेवायुक्तमिति दूषयति--न आवरणेति / ननु साक्षिरूपप्रकाशेनाज्ञानवत्तद्धीनावरणमप्यविरुद्धम् / अन्यथा त्वदुक्तमर्थे न जानामीत्यर्थस्याज्ञाततया साक्षिणाऽनुभवायोगादित्याशक्याज्ञातस्वरूपविशेषस्य साक्षिणा प्रकाशमानत्वमेयुक्तं येनाविरोधो भवेदित्याह--न चेत्यादिना / अज्ञातब्रह्मस्वरूपस्य प्रकाशमानत्वमनुपलब्धिविरुद्धं चेत्याह - अनवच्छिन्नेति / कथं तर्हि त्वदुक्तमथं न जानामीत्यज्ञानतद्विषययोः प्रकाश इत्याशक्य नात्राज्ञानविषयो भासते किन्तु तद्गतसामान्यमेवाज्ञानविषयस्तद्विशेषणतया भातीत्याह--त्वदुक्तमिति / नन्वज्ञानविषयाज्ञाने कथं विषयनिरूप्योऽज्ञानानुभव इत्याशक्याज्ञानानुभवेन तद्विषयज्ञानं हेतुः, किंतु तद्गतसामान्यज्ञानमेवेति सदृष्टान्तमाह-एवं चेति / न केवलं विशेषज्ञानमज्ञानाभावे न हेतुः किंतु तत्प्रतिकूलं चेत्याह-न हीति / अन्यज्ञानादन्याज्ञानानुभवे घटज्ञानात् पटाज्ञानानुभवः स्यादित्याशङ्क्याह-सामान्येति / सविषयमज्ञानं विषयज्ञानं विनैव भासत इत्येतन्न शोभते इत्याशङ्क्याह-अज्ञातेति / अज्ञानानुभवे तस्य सविषयत्वमज्ञातं चेत् तस्य सविषयत्वमेव न सिद्ध्येदित्याशक्य अर्थविशेषे ज्ञाते तत्सिद्धिरित्याह-न चैवमिति / आवरणानिरूपणात् प्रकाशमाने तस्यायोगाच्च न चिन्मात्रमज्ञानविषय इत्याह-तस्मादिति / अस्तु तहि जीवपरक्यमेवाज्ञानविषय इत्या. शङ्क्याह-नापीति / एवं नवीनप्रलापं प्रदर्श्य तं निराकरोति-मैवमिति / तत्र तावदावरणस्वरूपमाह--नास्तीति / अत्र 'अस्ति, प्रकाशते' इति व्यवहारयोग्य' इत्यपि द्रष्टव्यम्। ततश्च न जडेष्वव्याप्तिः / व्यवहारयोग्यत्वादेरारोपितत्वात्तद्धेतुतयाऽन्यदेवावरणं 27
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy