________________ 208 सटीकाद्वैतदीपिकायाम् वदनस्यापि भ्रमजन्यस्य तद्वत्वावरणापेक्षत्वात्, सुषुप्त्यादौ व्यवहाराभावाच्च / नाप्यस्ति प्रकाशत इति व्यवहाराभावः। अभिज्ञारूपस्वरूपप्रकाशस्याभावायोगात् / वृत्तिरूपाभिज्ञाव्यवहारस्य मोक्षेऽप्यसत्वान् / नापि नास्तीत्यादिव्यवहारयोग्यत्वं तस्याप्यारोपितत्वादावरणाधीनत्वात् / तस्यावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वलक्षणस्वप्रकाशत्वविरोधित्वादात्मन्ययोगाच्च / ___ न चाज्ञानावच्छेदकतया आत्मनोऽपरोक्षव्यवहारयोग्यत्वं स्वरूपेण तु नेति न विरोध इति वाच्यम्। स्वरूपस्यास्वप्रकाशत्वापातात नित्यातीन्द्रियस्याप्यज्ञा. नावच्छेदकतया तद्योग्यत्वात् स्वप्रकाशत्वप्रसङ्गाच्च / एतेनाज्ञानविशेषितापरोक्षव्यवहारयोग्यत्वमावरणकृत्यमित्यपि निरस्तम् / न चोक्तयोग्यत्वस्य मिथ्यात्वान्न विरोध इति वाच्यम् / सुखादिप्रकाशे सुखं न जानामीत्यनुभवाभावेन कल्पितस्याप्यज्ञानविषयत्वस्य तत्रायोगात् / वन्हाववह्नित्वारोपेऽपि वह्निकार्यस्येवात्मन्यप्रकाशारोपेऽपि प्रकाशकार्यप्रसङ्गाच्च / ननु कल्पितभेदं जीवचैतन्यं प्रति शुद्धचैतन्यमाच्छादयतीति चेत् न, आवरणं विना भेदकल्पनायोगात् / न च साक्षिणा प्रकाश अयथाव्यवहारहेतुज्ञानस्य भ्रमत्वात्तद्धत्वावरणमन्यदेव वाच्यमित्यर्थः। अनेनैव द्वितीयोऽपि कल्पो निरस्त इति द्रष्टव्यम् / सुषुप्तिप्रलयादावावरणसत्त्वेऽपि व्यवहाराभावादपि न तदावरणमित्याह-सुषुप्तीति / षष्ठमपवदति-नापीति / अत्रापि व्यवहारपदेनाभिज्ञी विवक्षिता, उताभिलापः ? / आद्येऽपि स्वरूपप्रकाशोऽभिज्ञा उत वृतिः ? / आद्येऽसंभवमाह--अभिनेति / द्वितीयेऽतिब्याप्तिमाह--वृत्तीति / अभिलापपक्षोऽप्यनेन निरस्त इति द्रष्टव्यम् / सप्तमं निषेधति--नापीति / आवराणाधीनत्वादिति / आरोपितस्य शुक्तिरजतादिवदधिष्ठानावरणाधीनत्वनियमात्तदतिरिक्तमेवावरणं वक्तव्यमिति भावः / आत्मनः स्वप्रकाशत्वायास्तीत्यादिव्यवहारयोग्यताया आवश्यकत्वात् तद्विरोधानास्तीत्यादि व्यवहारयोग्यचं तत्रासंभवि चेत्याह-तस्येति / नन्वपरोक्षव्यवहारयोग्यत्वमात्रमेव स्वप्रकाशत्वोपयोगि, ब्रह्मणस्तु विपरीतव्यवहारयोग्यतया स्वरूपेण तद्रहितत्वेऽप्यज्ञातत्वाकारेण तद्वत्त्वमस्तीति न स्वप्रकाशत्वविरोध इत्याशक्य तथा सत्यज्ञातत्वेनैव ब्रह्मणः स्वप्रकाशत्वं स्यान्न स्वरूपेणेत्याह--न चाज्ञानेति / . . किं च धर्मादि न जानामीति धर्मादावप्यज्ञाततयाऽपरोक्षव्यवहारदर्शनात्तद्योग्यत्वस्य फलाव्याप्यत्वलक्षणवेद्यत्वस्य च सत्त्वात् तत्र स्वप्रकाशलक्षणमतिव्याप्तं स्यादित्याह--नित्येति / स्वप्रकाशत्वविरोधादेवाष्टमोऽपि निरस्त इत्याह-एतेनेति / ननु वस्तुतः स्वरूपेणापरोक्षव्यवहारयोग्ये ब्रह्मणि विपरीतव्यवहारयोग्त्वरूपमावरणमारोपितत्वान्न तत्स्वप्रकाशत्वविरोधीति चेत्, न। अन्यत्र प्रकाशमाने आरोपितस्याप्यावरणस्यादर्शनेन तस्यैव तद्विरुद्धत्वादित्याहन चोक्तेति / आरोपितावरणेन प्रकाशमानत्वस्याविरोधै दोषमाह-वह्नाविति / नवममुत्थापयति--नन्विति / भेदकल्पनाया आव