SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ द्वितीयः परिच्छेदः 207 अज्ञानविषयनिरूपणम् तच्चाज्ञानं चैतन्यमात्रमावृणोतीत्युक्तम् / अत्र नवीन:--अज्ञानं न चैतन्यविषयं तत्रावरणकृत्यानिरूपणात् / न तावदावरणं प्रकाशविनाशः तदनुत्पादो वा। स्वरूपप्रकाशस्य तदयोगात् / आत्मन आगन्तुकप्रकाशावेद्यत्वात् / नापि सत एव प्रकाशस्य विषयसंबन्धाभावः प्रकाशस्यात्मस्वरूपत्वात् / नापि. फलानुत्पत्तिः ज्ञातताख्यफलस्य ज्ञानजन्यस्यानभ्युपगमात् / अविद्यानिवृत्तावविद्यायाः प्रतिबन्धकत्वेऽनिर्मोक्षप्रसङ्गात् / नापि नास्ति न प्रकाशत इति व्यवहारः। अभिलापलक्षणव्यवहारस्य रजतादिभ्रमवदावरणसाध्यत्वात् / अभि स्थितिकत्वमेव तत्प्रयुक्तिः, सा चानादेरप्यविरुद्धेति भावः / जीवत्वेश्वरत्वयोः कल्पितत्वे प्रोक्तानुपपत्तिमनुवदति--जीवे ते / जीवत्वादेः कल्पितत्वं यदि जन्यत्वं स्यात्ती बतो दोषः स्यात् / न चैवम् / तस्यानादित्वात् / किं तु तन्मिथ्यात्वम् / तच्चानादेरप्यविद्यासम्बन्धस्येवाविद्याप्रयुक्तत्वादेवोपपद्यत इत्यभिप्रेत्याह-अनादित्वादिति / किं बाबाश्रयाः प्रतीयमानजीवत्वादेमिथ्यात्वापादकत्वात्स नाद्वैमते दोष इत्याह-वस्तुतस्त्विति / अज्ञानं चिन्मात्राश्रयविषयं जीवाश्रयं ब्रह्मविषयं वेति मतद्वयस्य निरवद्यत्वं निगमयति-अत इति / अज्ञानाधीनावरणं निरूपयितुं तस्य प्रसङ्गमाह-तच्चेति / आवरणस्वरूपस्याधस्तादुक्तत्वात् पुनस्तनिरूपणं किमर्थमित्याशक्य तत्र परोक्तदोषाप्रवादायायमारम्भ इत्यभिप्रेत्य तदुक्तमनुवदति--अत्रेति / आवरणं च तत् कृत्यं चेत्यावरणकृत्यं तदनिरूपणादित्यर्थः / किमावरणं प्रकाशविनाशः, प्रकाशानुत्पादो वा सतः प्रकाशस्य विषयसंबन्धाभावो वा, फलानुत्पत्तिर्वा, नास्ति न प्रकाशत इति व्यवहारो वा, अस्ति प्रकाशत इति व्यवहाराभावो वा, नास्तीत्यादिव्यवहारयोग्त्वं वा, अज्ञानविशेषितापरोक्षव्यवहारयोग्यत्वं वा, अज्ञानस्य जीवं प्रति शुद्धचैतन्यावच्छेदकत्वं वा? / नाझवित्याह-न तावदिति / किमत्र प्रकाशपदेनाऽऽत्मस्वरूपप्रकाश उच्यते, तद्विषयागन्तुकप्रकाशो वा ? / उभयथाऽप्यनुपपत्तिमाह-स्वरूपेति / तृतीयं दूषयति--नापीति / स्वप्रकाशात्मनः सदा प्रकाशसंबद्धत्वात्तदभावोऽसंभवीत्यर्थः / चतुर्थमपवदति-नापीति / फलशब्देन ज्ञातता विवक्षिता अविद्यानिवृत्तिर्वा ? / आद्य आह-ज्ञाततेति / द्वितीयेऽविद्यायाः स्वनिवृत्त्यनुत्पत्तिप्रयोजकतया तत्प्रतिबन्धकता स्यात् / ततश्च स्वनिवृत्तः पूर्व स्वाभावायोगेन स्वनिवृत्तिरेव न स्यादिति मोक्षो न भवेदित्याह--अविद्येति / पञ्चमं निराकरोति-नापीति / व्यवहारपदेनाभिलापरूपो ब्यवहारो विवक्षितः, अभिज्ञारूपो वा ? / आये तस्याऽऽवरणसाध्यत्वेन ततोऽन्यदेवावरणं वाच्यमित्यभिप्रेत्याहअभिलापेति / अभिलापो ज्ञानसाध्यो न त्वावरणसाध्य इत्याशङ्ख्याह-अभिवदनस्येति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy