________________ 206 सटीकाद्वैतदीपिकायाम् न दोषः। न चाज्ञानाजन्यत्वेजीवत्वादेः कथं मृषात्वमिति वाच्यम् अज्ञानस्येवानाविधर्मस्थापि स्वभावप्रयुक्तमिथ्यात्वस्याज्ञानजन्यत्वम् विनाप्यविरोधान् / नचैवं जीवत्वादेः कथमज्ञानप्रयुक्तत्वं वपरीत्यस्यापि सुवचत्वादिति वाच्यम् / ज्ञानकालनियतव्यतिरेकप्रतियोगिजीवत्वादेरज्ञानप्रयोज्यत्वात् / अन्यथा तन्निवृत्तौ तबनिवृत्तिप्रसङ्गात् / न च ज्ञानेनैव तनिवृत्तिरिति वाच्यम् / सत्यज्ञाने तदयो. गात् / श्रुतौ स्मृतौ च जीवत्वादेः अज्ञानाधीनत्वस्य सिद्धत्वाच्च। एवमीश्वरत्वमप्यविद्याप्रयुक्तम् / "जीवेशावाभासेन करोति" इति श्रुतेः। तत्प्रयुक्तिमात्रेण करोतिश्रुतिः। प्रयुक्तिश्चोक्ता। जीवेश्वराभ्यामेव तयोः कल्पने आत्माश्रयः / अन्योन्यकल्पने वाऽन्योन्याश्रय इति नवीनोक्तमप्यत एवासत् / मनादित्वात् / वस्तुतस्तु ब्रह्मवादे आत्माश्रयत्वादिर्न दोषः। अतो मतद्वयेऽपि न दोष इति / कता स्यात्तह्य भयोरप्यसिद्धयापातेनान्योन्यप्रयुक्तिरपि न स्यान्न त्वेतदस्ति, किंतु मुखप्रतिबिम्बे श्यामत्वव्यस्थापकभेदोपाधितया दर्पणं तत्प्रयोजकमितिवच्चित्प्रतिबिम्बे जीवत्वव्यवस्थापकभेदोपाधित्वादविद्याभावे जीवत्वस्याप्यभावादविद्या जीवत्वप्रयोजिकेत्युच्यते जीवत्वमप्यविद्याश्रयतावच्छेदकत्वात्तत्प्रयोजकमित्युच्यते / आश्रयतावच्छेकतया च परस्परापेक्षा परैरपीष्यत इति न दोष इत्यभिप्रेत्याह-न ह्यविद्याया इत्यादिना / जीवत्वस्याज्ञानाकार्यत्वे चैतन्यवन्मिथ्यात्वं न स्यादित्याशक्य न मिथ्यात्वमविद्याकार्यत्वप्रयुक्तं तदभावेप्यज्ञानस्य मिथ्यात्वात् किं तु जडत्वप्रयुक्तम्, तच्च जीवत्वस्यानादित्वेऽप्युपपद्यत इत्याह--न चाज्ञानेति / ननु जीवत्वजीवेशभेदादेरनादित्वे कथ तस्य तत्र तत्राज्ञानप्रयुक्त्वाभिधानं तत्समानाधिकरणत्वमात्रेण तत्प्रयुक्तत्वेज्ञानमपि जीवत्वादिप्रयुक्तं स्यादिति चेत् न / अज्ञानव्यतिरेकस्य जीवत्वादिव्यतिरेकप्रयोजकत्वात् तत्प्रतियोग्यज्ञानं तत्प्रतियोगिजीवत्वादिप्रयोजकमित्याह-न चैवमित्यादिना / अज्ञाननिवृत्तीवत्वादिनिवृत्त्यप्रयोजकत्वे दोषमाह-अन्यथेति / ज्ञानादेव साक्षाज्जीवत्वादिनिवृत्तिर्भवत्वित्याशक्य जीवस्य स्वस्वरूपब्रह्माज्ञाने सति जीवत्वादिनिवृत्त्ययोगात्तत्पूर्वमज्ञानानिवृत्तेरावश्यकत्वान्मैवमित्याह-न च ज्ञानेति / एषा माया “जीवेशावाभासेन करोति" इति श्रुतेः “विभेदजनकेऽज्ञाने" इति स्मृतेश्च जीवत्वादेरविद्याप्रयुक्तत्वमभ्युपेयमित्याह-श्रताविति / प्रतिबिम्बचैतन्यस्य जीवत्वमिव बिम्बचैतन्यस्येश्वरत्वमप्यविद्याप्रयुक्तमित्याह-एवमिति / . आभासेनेति। प्रतिबिम्बादिभावेनेत्यर्थः / जीवेशयोरनादित्वात्कथं मायाकृतत्वमित्यत आह-तत्प्रयुक्तीति / तदधीनोत्पत्तिरेव तत्प्रयुक्तिः साऽप्यसंभविनीत्याशङ्क्याह-प्रयुक्तिश्चेति / मायाव्यतिरेकाधीनव्यतिरेकप्रतियोगित्वात् जीवत्वादेस्तदधीन.