________________ 205 द्वितीयः परिच्छेदः प्रतिबिम्बिते जीवेऽविद्या वर्तते न ब्रह्मणि ब्रह्मणो निरवद्यत्वश्रुतेः। मायाविच्वश्रुते याविषयत्वेनाप्युपपत्तेरिति केचिन / न चान्योन्याश्रयः अविद्याजीवत्वयोरनादित्वात् / केवलसाक्षिवेद्यत्वाच्च / ननु जीवत्वमविद्याप्रयुक्तम् / अविद्या च जीवाश्रयेवेति च प्रयुक्तावितरेतराश्रयः; तदाह नवीनः अविद्याजीवयो यंत्र ह्यपेक्षा तन्निरोधकः। अन्योन्यसंश्रयो नोचेदन्योन्याधीनताक्षतिः॥ इति चेत् / अविद्याया जीवनिष्ठत्वे परस्पराश्रयत्वदोषपरिहारः न ह्यविद्याया जीवत्वप्रयोजकत्वं तत्कारणत्वेन तदवच्छेदकत्वेन वा / तस्यानादित्वात् / किं त्वविद्योपहिते जीवत्वम् / उपाधिश्च यद्यपि तटस्थ एव तथापि तदधीनपृथक्त्वाश्रयचैतन्ये जीवत्वमिति तदाश्रयतावच्छेदकत्वेन जीवत्वध्यतिरेकव्याप्यव्यतिरेकप्रतियोगिनीति सा तत्प्रयोजिका। आश्रयतावच्छेदकं त्वन्योन्यसापेक्षमन्यमतेऽपि दृष्टम् / यथा द्रव्यत्वगुणत्त्वयोः प्रमेयत्वाभिधेयत्वयोर्वेति शक्त्य व्यवहारदशायां बाध्यमानकार्यानुपपत्त्या तत्सिद्धिरित्याह-रजतेति / रजतादिकमज्ञातचैतन्यविवर्तो न त्वज्ञानविवर्त्त इति मतेन मूलाज्ञानस्यैवैकाश्रयविषयत्वं न त्ववस्थाज्ञानानामित्याह-अथबेति / अभेदानुभवादिति / वेदान्तवेद्यं मामहं न जानामीत्यर्थः / “मायिनं तु महेश्वरम्" इत्यागमपदार्थः / अहमिति प्रकाशविषयो न ब्रह्मविषयाज्ञानाश्रयस्तदबच्छेदको वा इत्याद्यनुमानपदार्थः / अवस्थाज्ञानमेकाश्रयविषयम् आवारकत्वात् मूलाज्ञानवदित्यनुमानं शुक्तिमहं न जानामीत्याद्याश्रयविषयभेदविषयधमिग्राहकानुभवविरोधेन दूषयति-न चेति / . - अज्ञानस्य प्रमातृचैतन्यगतत्वे ततः कथमन्यत्रावरणं अपवरकान्तः स्थेन तमसा बाह्यप्रदेश आवरणादर्शनादित्याशङ्क्य हेतुहेतुमतोरेकाश्रयत्वनियमाभावान्न तदिति सदृष्टान्तमाह-अन्येति / वाचस्पतिना मूलाज्ञानस्याप्याश्रयविषयभेदोऽभ्युपगतः, / तमुपपादयितुमाह-अविद्येति / ब्रह्मणो मायात्मकाज्ञानानाश्रयत्वे "मायिनं तु महेश्वरम् इति श्रुतिविरोध इत्याशङ्क्याह --मायावित्त्वेति / ननु चैतन्यस्य वस्तुतो जीवत्वाभावादविद्याधीनं जीवत्वं तदवच्छिन्नाश्रयाऽविद्योति मतेऽविद्याऽपि तदधीनेति परस्पराश्रय इत्यत आह-न चेति / किमविद्याजीवत्वयोरुत्पत्तावन्योन्यापेक्षा उत ज्ञप्तौ प्रयुक्तो वा?। नाद्यः। तयोरुत्पत्तेरेवाभावादित्याह--अविद्येति / न द्वितीयः / तज्ज्ञानस्य नित्यतयाऽन्यानपेक्षत्वादित्याह- केवलेति। तृतीयं शङ्कते-नन्विति / प्रयुक्तावितरेतराश्रयत्वे नोक्तदोष इत्याशक्य तस्य दोषत्वं परोक्तश्लोकेन दर्शयति-तदाहेति / "... अविद्याजीवत्वयोर्यद्यन्योन्यं प्रति कारणत्वेन कारणतावच्छेदकत्वेन वा प्रयोज