________________ 204 सटीकाद्वैतदीपिकायाम् धितया तदनुभवात, ब्रह्मज्ञानस्य तदयोगात् / शुक्तिकादिज्ञानेन तदज्ञाननिवृत्त्यनुभवाच्च तदपि समानाश्रयविषयम् / अवस्थाज्ञानस्य विषयनिष्ठत्वे अनुभवविरोधः नन्वेवं विषयचैतन्यगताज्ञानान्तरस्य कथमहमिदं न जानामीति प्रतीतिरिति चेत् / न, अवस्थावस्थावतोरभेदादवस्थावतो मूलाज्ञानस्यात्मगतत्वात् तथानुभव इति केचित् / अन्ये तु चैतन्यै क्यादित्याहुः / अपरे तु शुक्तिमहं न जानामीत्यनुभवो मूलाज्ञानविषयः शुक्त्यादेरपि तद्विषयाभिन्नतया तद्विषयत्वानुभवात् रजताधुपादानमज्ञानन्तु कार्यानु पत्तिगम्यमित्याहुः / अथ वा मूलाज्ञानस्याश्रयविषयाभेदानुभवात् तदविरुद्धागमानुमानाभ्यामस्तु चैतन्यमात्रमाश्रयो विषयश्च / शुक्त्याद्यज्ञानस्याहमिदं न जानामीतितद्भदानुभवात् अहमर्थचैतन्यमाश्रयः। शुक्त्याद्यवच्छिन्नचैतन्यं विषयः। न चावारकत्वादिना तदभेदानुमानम् / अनुभवविरोधे तस्याभासत्वात् / अन्याश्रिताज्ञानेनापि अन्यत्र विपरीतव्यवहारालम्बनयोग्यत्वस्यावरणस्य कर्तु शक्यत्वात् / करणाश्रितेनापि विषयसंयोगेन कर्तरि ज्ञानदर्शनादिति / अविद्या सति घटादिज्ञाने तन्निवृत्त्यनुभवाच्च तन्मूलाज्ञानादन्यदेवेत्यर्थः / साक्षिगतावस्थाज्ञानस्य शुक्तयाद्यवच्छिन्नचैतन्यमेवाश्रयो विषयश्चेति तदप्येकाश्रयविषयमित्याह-तदपीति / अवस्थाज्ञानस्य विषयचैतन्यनिष्ठत्वे तस्य प्रमातृसंबधितयाऽनुभवायोग इति शङ्कते-नन्विति / अवस्थाज्ञानस्य मूलाज्ञानधर्मत्वाद्धर्ममिणोरभेदान्मूलाज्ञानस्य चाहंकारसमानाधिकरणत्वादवस्थाज्ञानमपि तदनुरक्ततया भातीति केषांचित्परिहारमाह-अवस्थेति / स्वमतमाह--अन्येत्विति / यथा मे देः देवदत्तान्तः करणावच्छिन्नसाक्षिसम्बन्धाभावेऽपि वस्तुतस्तदभिन्नचैतन्येऽध्यासमात्रेण तेनाज्ञाततयाऽनुभूयते, एवं घटावजिन्नचैतन्यस्थाज्ञानस्याहंकारावच्छिन्नचैतन्येन विशिष्य संबधाभावेऽपि वस्तुतोऽज्ञानाश्रयचैतन्यस्य तेनाभेदमात्रेणाहमिदं न जानामीति प्रतीतिरुपपद्यते / घटादेरज्ञाततयाऽनुभव इवाज्ञानानुभवेऽपि तदधिष्ठानचैतन्यप्रमातृचैतन्ययोस्तिवाभेदस्यैव प्रयोजकत्वात् / विषयचैतन्याश्रितस्याप्यज्ञानस्य तन्निवर्तकज्ञानाश्रयप्रमात्रेतरव्यावृत्तस्वरूपसम्बन्धविशेषाच्छाखाग्रे चन्द्रमा इतिवन्मय्यज्ञानमित्यादिप्रतीतिरुपपद्यत इति भावः। सर्वत्र न जानामीति मूलाज्ञानस्यैवानुभूयमानत्वादवस्थाज्ञानानामननुभव इष्ट इति मतान्तरमाह-अपरेत्विति / मूलाज्ञानं प्रति शुक्तयादेविषयत्वतदवच्छेदकत्वयोरभावात्कथं शुक्ति न जानामीत्यादिप्रतीतिरित्याशङ्क्याह-शुक्त्यादेरिति / अज्ञानविषयब्रह्माभिन्नसत्ताकतया शुक्तयादेरपि तद्विषयत्वानुभव इत्यर्थः / एवं तर्हि मानाभावादस्थाज्ञानमेव न सिद्ध्येदित्या