________________ द्वितीयः परिच्छेदः 203 कल्पितावृतत्वस्य स्वाश्रये तदभावाविरुद्धत्वात्। आवृत्वानावृतत्वयोः कल्पितमिभेदादविरोध इति केचित् // न चावरणसिद्ध्यनन्तरं भेदारोप इत्यन्योन्याश्रयः / उभयोरप्यनादित्वात् / न चानादित्वे कल्पितत्वानुपपत्तिः। मिथ्यात्वपर्यायकल्पितत्वस्यानादित्वेऽप्यविरोधात् / तस्माद् ब्रह्मविषयमज्ञानं चैतन्यमात्राश्रयमिति रजतादिभ्रमहेत्वज्ञानमपि शुद्धचैतन्यविषयं तदाश्रयं च तस्यैव तभ्रमहेतुत्वात् / शुक्तिकावच्छिन्नचैतन्येऽज्ञानान्तराभावात्। न चैवं शुक्तयाकारवृत्त्या तदनवभासप्रसङ्गः, तदवच्छिनचंतन्यस्यावृतत्वात् तदावरणस्य ततोऽनिवृत्तेरिति वाच्यम् / अज्ञानस्य तत्तदाकारवृत्तिसंसृष्टचंतन्याविषयस्वभावतया सत्यपि तस्मिन वृत्त्या तववभाससंभवात् / सोऽयं वृत्तरावणाभिभवो नाम / अस्तु वाऽज्ञानान्तरं घटं जानामीति घटज्ञानविरो त्वापातादित्यादियुक्तया च तयोर्भेदाभावसिद्धरुक्तावरणानवरणे न धर्मिभेदप्रयुक्त इत्यर्थः / नन्वनावृतचिन्मात्रत्व आनन्दस्याप्यावृतत्वं न स्यात् वास्तवानावरणसमसत्ताकावरणान्तराभावेन कल्पितावरणस्यैव तद्विरोधित्वादिति, तत्राह-कल्पितेति / कल्पितस्य' शुक्तिरूपयादेः स्वाभावेन सहावस्थानदर्शनादभावस्य स्वाश्रये प्रतियोगिसत्त्वेनैव विरोधो न प्रतियोगिनेत्यसकृदुक्तत्वादनावृतत्वमावरणसत्वाभावेऽपि तदुपपद्यत इति भावः / चिदानन्दयोवस्तिवाभेदेऽयनिर्वचनीयभेदादावरणानावरणव्यवस्थेति मतान्तरमाह-आवृतत्वेति / अनावृते भेदारोपाभावादावरणाधीनो भेदारोपः। आवरणस्य तदधीनत्वेऽन्योन्याश्रय इति चेत् न। उभयोरप्यनादित्वात्साक्षिमात्रभास्यत्वाच्चोत्पत्तिज्ञप्त्योः परस्परापेक्षाभावात् / प्रयुक्तौ तु परस्परापेक्षा न दोष इत्यभिप्रेत्याहन चेति / ननु दोषजन्यस्यैव कल्पितपदार्थत्वाद् भेदादेरनादित्वे कल्पितत्वानुपपत्तिरिति चेत् न / परमते भ्रमस्य दोषजन्यत्वेऽपि कल्पितत्वाभावान्मिथ्यात्वमेव कल्पितत्वम् / तच्च बाध्यत्वं तदनादित्वेन न विरुद्धमित्याह-न चानादित्वे इत्यादिना / मूलाज्ञानस्यैकाश्रयविषयत्वमुपसंहरति-तस्मादिति / अज्ञानमेकमेवेति मते रजतादिभ्रमहेत्वज्ञानस्य मूलाज्ञानादभेदात्तदप्येकाश्रयविषयमित्याह-रजतादीति / मूलाज्ञानावृतचिन्मात्रस्यैव शुक्तिकाद्यवच्छिन्नत्वे शुक्त्याद्याकारवृत्या तदावरणनिवृत्त्ययोगाच्छुक्तयादेरापरोक्ष्यं न स्यादित्याशङ्कामपवदति-न चेति / हेतुमाह-अज्ञानस्येति / अन्तःकरणवृत्त्यवच्छिन्नचैतन्यातिरिक्तचैतन्यावरणस्वभावत्वादज्ञानस्य शुक्त्याद्याकारवृत्त्यावऽच्छेददशायां तदवच्छिन्नचैतन्यमज्ञानेनानावृतमिति ततः शुक्त्यादेरपरोक्षतयाऽवभासोपपत्तिरित्यर्थः / अज्ञानस्य' वृत्त्यवच्छिन्नचैतन्यानावरकत्वमेव वृत्तेर्हेतोरावरणाभिभव इति तत्र तत्रोच्यते, न त्वज्ञाननिवृतिरित्यभिप्रेत्याह-सोऽयमिति / रजतादिभ्रमहेत्वज्ञानं मूलाज्ञानादन्यदेवेति मतान्तरमाह-अस्तु वेति / घटाद्यज्ञानस्य घटादिज्ञानविरोधित्वानुभवात्