________________ 202 सटीकाद्वैतदीपिकायाम् पत्तः,प्रकाशमानस्यैव प्रकाशकत्वात् / न चाज्ञानसाक्ष्यंशचैतन्यं नावृतमिति वाच्यम् / आवतानावृतांशभेदाभावादिति; मैवम् / आवृतस्यापि प्रकाशस्य प्रकाशत्वानपायात् तस्याज्ञानप्रकाशकत्वोपपत्तेः। आवृतत्वे प्रकारान्तरम् ___ अथ वा प्रकाशोऽनावृत एव, चैतन्यं नास्ति न प्रकाशत इति व्यवहाराभावेन चैतन्ये तद्विषयत्वयोग्यतालक्षणावृतत्वाभावात् / न चैवं तदावृतं न स्यादिति वाच्यम्। मय्यानन्दो नास्ति न प्रकाशत इत्यादिव्यवहारदर्शनेन तद्विषयत्वयोग्यतालक्षणावतत्वस्यापि सत्त्वात् / न चावृतानावृतभेदप्रसङ्गः आवृतत्वस्य कल्पितत्वेनाविरोधेऽपि कल्पितावरणं चैतन्येऽपि स्यादिति वाच्यम् / चैतन्य आवरणकृत्याभावेनावृतत्वानुपपत्तेः / चैतन्यानन्दयोरत्यन्ताभेदस्यापि श्रुतिन्यायसिद्धत्वात् त्तिरिति / तत्राह-एवमिति / कर्तृत्वादिबन्धस्येव ब्रह्माकारान्तः करणवृत्तरप्यज्ञानाश्रयजीवचैतन्यमधिष्ठानतयाऽश्रय इत्यज्ञानसामानाधिकरण्यम् / तद्वद् वृत्या तदभिव्यक्ताधिष्ठानचैतन्येन चाज्ञाननिवृत्त्युपपत्तिरिति भावः। अज्ञानावृतस्यैवाज्ञानविषयत्वात्तस्यैव तदाश्रयत्वे ततोऽज्ञानप्रथा न स्यादिति शङ्कते–नन्विति / प्रकाशमानस्यैवेति / इतरथा घटादिकमप्यावृतस्वाधिष्ठानचैतन्येन प्रकाशेतेति भावः। चिन्मात्रस्यैकोंऽशोऽज्ञानावृतः अपरोंऽशोऽनावृतोऽज्ञानसाधक इत्याशक्य तत्रांशभेदाभावान्मैवमित्याह -न चेति / अज्ञानावरणेन चैतन्यस्य प्रकाशरूपत्वानपायात्तस्येतराप्रकाशकत्वेपि स्वावारकाज्ञानसत्ताप्रकारकसंशयादिविरोधित्वरूपं तत्प्रकाशकत्वम विरुद्धम् / राहावृतसौरप्रकाशस्य स्वावारकप्रकाशकत्वदर्शनादित्यभिप्रेत्य परिहरति-मैवमिति / ___ अज्ञानाश्रयचिन्मात्रस्यानन्दादिरूपेणावृतत्वादज्ञानविषयत्वं चिद्रूपेणानावृतत्वात्तदवभासकत्वं चाविरुद्धमिति पक्षान्तरमाह-अथ वेति / स्वप्रकाशत्वेन "अस्ति प्रकाशत" इति व्यवहारयोग्ये नास्ति न प्रकाशत इति व्यवहारयोग्यत्वमविद्याधींनावरणमित्यनन्तरवादे वक्ष्यते। ततश्च "चैतन्याभेदो मयि नास्ति न प्रकाशत" इतिव्यवहारदर्शनेन चैतन्यात्माभेदस्यावृतत्वमपि / मयि चैतन्यं नास्तीत्यादिव्यवहारादर्शनान्न तेन रूपेणावृतत्वं वृतिविशेषाभावदशायामानन्दो नास्ति न प्रकाशत इति व्यवहारदर्शनेन तेन रूपेणावृतत्वमात्मन इत्यर्थः / ननूक्तावरणानावरणे विरुद्धेऽविरुद्ध वा ? / आये तदाश्रययोरानन्दचैतन्ययोर्भेदापातेनात्मनश्चिदानन्दरूपत्वं न स्यात् / द्वितीये चिद्रूपेऽप्यावरणापातः / तस्यावरणाविरोधादिति न शङ्कनीयम् / अविरुद्धस्याप्यावरणस्य चैतन्ये कल्पकाभावादेवाभावादित्याह-न चेत्यादिना / चैतन्यस्यावृतानन्दभेदादेवानावरणं किं न स्यादित्यत आह–चैतन्येति / "विज्ञानमानन्दं ब्रह्म" "सदानन्दचिन्मात्रम्" इत्यादिश्रुत्या चिद्भिन्नस्यानन्दस्य दृश्यतया कल्पितत्वेनापुरुषार्थ