________________ 199 द्वितीयः परिच्छेदः यद्यप्यज्ञानाश्रयश्चैतन्यं, ईश्वरेऽप्यज्ञानमस्त्येव तथापि न तेनेश्वरस्याज्ञत्वम्। तथा हि-किमज्ञानाश्रयस्यैव चैतन्यस्य जीवपरभावेन विभागे जीववदीश्वरोऽप्यनादिजीवज्ञाननिवाश्रयः स्वात्मनि तद्वैशिष्टयं च प्रतीयादित्युच्यते, किं वा जीव इव भ्रान्त्यादिमानहमज्ञ इति प्रतीतिमांश्च स्यात् ? / आये इष्टापत्तिः। न हि सर्वज्ञेश्वरो जीवस्य स्वरूपावारकं तज्ज्ञाननिवर्त्यमनाद्यज्ञानपदाभिधेयमप्यस्तीति न जानाति / न चैतादशं ज्ञानं तस्य सार्वज्ञयविरुद्धम् / न द्वितीयः। अज्ञानस्य तं प्रति स्वरूपावारकत्वाभावेन तस्य व्यामोहादेरसंभवात् / स्वरूपावारकस्यैवाज्ञो न जानामीत्यनुभवविषयत्वात् / अन्यथा त्वदभिभूतेश्वरेऽपि सर्वाधारे त्वदभिमतमज्ञानमस्तीति तस्य न जानामीत्यनुभवप्रसङ्गः। कथमेकमज्ञानं जीवस्य स्वरूपावारकं नेश्वरस्येति चेत् / न, त्वदभिमतमायाया इव पुरुषभेदेनैकस्याप्यज्ञानस्यावारकत्वानावारकत्वस्याविरुद्धत्वात् कार्यदर्शनस्य श्रुतिप्रमाणस्य चोभयत्र तुल्यत्वात् / अज्ञानाश्रयचिन्मात्रस्यैव जीवेश्वरभावापत्त्यैश्वररूपचैतन्यस्याप्यज्ञानाश्रयत्वेऽपि न जीववदज्ञत्वमिति प्रतिजानीते-यद्यपीति / तदुपपादयतुं ब्रह्मण्यापाद्यमानमज्ञत्वादि विकल्पयति-तथा ही त / अनादीति / अनादित्वे सति जीवगतब्रह्मविषयज्ञानेन निवयं यत् तदाश्रय इत्यर्थः। स्वात्मनीति / जीवं प्रति यत्स्वरूपावरकमज्ञानं चिन्मात्रे मयि वर्तत इति प्रतीयादित्यर्थः / “मायिनं तु महेश्वरम्” इति श्रवणादीश्वरस्याविद्याश्रयत्वमिष्टमित्याह-आद्य इति / ईश्वरस्य सर्वज्ञत्वादेव तस्मिस्तद्वैशिष्ट्यप्रतीतिरपीष्टवेत्याह-न हीति / जीवस्येति कर्मणि षष्ठी जीवं प्रतीत्यर्थः / जीवव्यामोहकरमज्ञानमप्यस्तीति ज्ञोनमीश्वरस्य सर्वज्ञत्वानुगुणमेव न तद्विरुद्धमित्याह-न चैत दृशमिति / ईश्वराश्रितमन्यज्ञानं तं प्रति न किंचिदप्यावणोतीति न तस्याज्ञत्वभ्रान्तत्वादिदोषप्रसङ्ग इत्याह-न द्वितीय इति / अज्ञानाश्रयत्वमात्रेणाज्ञत्वानभवापादने बाधक माह- न्यथेति / अज्ञानस्य जीवं प्रत्येव स्वरूपावारकत्वं स्वभावश्चेदीश्वर प्रत्यपि तथा स्थान्न चेत्तथा जीवं प्रत्यपि तन्न स्यादिति शङ्कते-कथमिति / अज्ञानस्य जीवं प्रत्येव स्वरूपावारकत्वं स्वभावो नेश्वरं प्रति, यथा परमते मायाया ईश्वरतदनुगृहीतपुरुषातिरिक्तपुरुषमात्रव्यामोहकत्वं तद्वदित्याह-न त्वदभिमतेति / पुरुषविषय एव व्यामोहकार्यस्य संसारस्य दर्शनादीश्वरस्य च नित्यमुक्तत्वश्रवणात् परमते तथा व्यवस्थेत्याशङ्ख्याज्ञानावरणानावरणव्यवस्थायामप्ययं हेतुस्तुल्य इत्याह-- कार्येति / ___ईश्वरस्य स्वाभाविकसर्वज्ञत्वविरोधान्न व्यामोह इत्येतदपि तुल्यमित्याहतस्येति /