SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ 198 सटीकाद्वैतदीपिकायाम् चैतन्याश्रयत्वमात्रस्य चिन्मात्राश्रयत्वपक्षेपि सत्त्वात् / तदाश्रयचैतन्यस्याहंकारेणाप्युपहितत्वात् / न ह्याकाशमात्रे वर्तमानं तमोऽपवरकाकाशे न वर्तते। तदुपहितचैतन्यमात्राश्रितत्वं त्वज्ञानस्थ न 'अहमज्ञः' इति प्रतीतिविषयः। अहमेवाज्ञः अहंकारावच्छिन्नमेवाज्ञानमिति वाऽनुभवाभावात् / अज्ञोऽहमीश्वरो न भवामीत्यनुभवेऽज्ञानाश्रयस्येश्वराद्धदः प्रतीयत इति वेत, सत्यम् / न ह येतावता चिन्मात्राश्रयत्वविरोधोऽस्ति / अज्ञोऽहं चिद्रूपो न भवामीत्यनुभवस्यव चिद्रूपमात्राश्रयत्वे बाधकत्वात्, तस्य चासत्त्वात् / तस्माद्वेदान्तप्रतिपाद्यं मामहं न जानामी. त्यनुभवादेकाश्रयविषयमेवाज्ञानम् / प्रयोगश्च अहमितिप्रकाशविषयो न ब्रह्मविषयाज्ञानाश्रयः, तदाश्रयतावच्छेदको वा, कार्यत्वात् जडत्वात् घटादिवत् / अहमज्ञइति प्रतीतिश्चाबाधिकेत्युक्तम् / कथं तहि चिन्मात्राश्रयमज्ञानं जीवेऽनुभूयते तदाश्रयस्य जीवचैतन्याभिन्नत्वादिति चेत् तहि ईश्वरस्याप्यज्ञत्वमहमज्ञ इति प्रतीतिश्च स्यादिति केत् अनात्मनोऽहंकारस्याज्ञानाश्रयत्वाभावेऽपि तदुपहितचैतन्यमेव तदाश्रयोऽतु, न तु चिन्मात्रमिति शङ्कते-तदुपहितेति / किमज्ञानस्योपहितचैतन्याश्रितत्वमात्रं तदनुभवविपय इत्युच्यते, उतानुपहितानाश्रितत्वमपीति ? / आये न विरोध इत्याह-न तदुपहितेति / चिन्मात्राश्रिताज्ञानस्य कथनुपहिताश्रितत्वमित्याशक्याकाशमात्राश्रितपरिमाणान्धकारारुपहिताकाशेऽपि वृत्तिवदविरोध इत्याह-तदाश्रयेति / द्वितीयं दूषयति-तदुपहितेति / अज्ञानाश्रयस्य चिद्रूपेश्वराद् भेदावगमात्कथमज्ञानस्य चिन्मात्राश्रयत्वमिति शङ्कते-अज्ञोऽहमिति / अत्राज्ञानस्येश्वरभेदेन सामानाधिकरण्यमात्रं प्रतीयते तत् आत्मत्ववदज्ञानस्य चिन्मात्राश्रयत्वेऽपि न विरुद्ध्यते इति परिहरति-सत्यमिति / कीदृशस्तीनुभवश्चिन्मात्राश्रयत्वविरोधीत्याकाङ्क्षायामाह-अज्ञोऽहमिति / अहङ्कारवादिनो मम तादृशोऽनुभवोऽस्तीत्याशङ्क्यान्येषां तदभावात् त्वदनुभवो वटयक्षानुभववन्निमूल इत्याह-तस्य चेति / मामहं न जामामीत्यनुभवस्य बाधकाभावात्तत एकाश्रयविषयत्वमज्ञानस्यावश्यकमित्याह-तस्मादिति / चिन्मात्राश्रितत्वेऽनुमानमप्याह--प्रयोगश्चेति / शुक्त्यवच्छिन्नचैतन्यनिष्ठाज्ञानानाश्रयत्वेनार्थान्तरतादारणाय ब्रह्मविषयेत्युक्तम् / तदा. श्रयतावच्छेदको वेति / नेत्यनुषज्यते / अहङ्कारातिरिक्तजडानाश्रितस्याज्ञानस्याहङ्कारतदवच्छिन्नचेतन्याश्रितत्वनिषेधे चिन्मात्राश्रितत्वमेव पर्यवस्यतीति भावः / उक्तानुमानस्याहमज्ञ इति प्रत्यक्षबाधमाशङ्कय तस्याहमर्थंकदेशचिदंशगाम्यज्ञानविषयत्वोपपादनान्नैवमित्याह-अहमज्ञ इति / उक्तानुमानस्य तर्कविरोधं शङ्कते-कथं तीति / चिन्मात्रस्यैवाविद्यया जीवभावेन स्थितत्वात् तत्र तदनुभव इत्याशक्य तहि चिन्मात्रस्यैव ब्रह्मभावेनापि स्थितत्वात्तत्रापि तदापात इत्याह-सदाश्रयस्येत्यादिना /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy