________________ द्वितीयः परिच्छेदः 197 कारेण राजत्वेन बोधितः कुमार इव व्याधभावात संसारान्मुच्यते / न च नित्यमुक्तत्वश्रुतिविरोधः। तस्या वस्तुतः संसाराभावपरत्वादिति, तन्न / प्रतीयमानसंसारास्पृष्टत्वस्यैव तदर्थत्वात् जीवातिरिक्तब्रह्मानङ्गीकारे तद्विरोधस्यापरिहाराद् "यः सर्वज्ञः" इत्यादिश्रुतिविरोधश्च स्यात् / अज्ञानस्य चिन्भात्रश्रयत्वे पूर्वपक्षः किं चाज्ञानं शुद्धचितः स्वाभाविकं चेत् न निवर्तेत / औपाधिक चेद् अन्योपाधिस्वीकारेऽन्योन्याश्रयाद्यापत्तः, ब्रह्मण्यज्ञानस्वीकारे तस्य निरवद्यत्वश्रुतिविरोधश्च / तमस्त्वमपि हेतावन्धकारसाधारणं दुनिरूपम् / आवारकत्वं च पटादौ व्यभिचारीति / अत्रोच्यते। अस्ति तावज्जीवस्य वेदान्तप्रतिपाद्याशनायादिरहितस्वप्रकाशस्वरूपविषयाज्ञानम् / अत्राज्ञानाभावे मम ताद्वशस्वरूपमस्ति न वेति संशयाद्ययोगात् / अनावृतप्रकाशे तदयोगात् / ताद्वक स्वरूपं च तस्य निरूपितमेव / ततश्च विषयाश्रयमज्ञानं सिद्धम् / अहमज्ञ इति प्रतीतिरपि अज्ञानस्यचैतन्यमात्राश्रयत्वविषयैव अहमनुभवगोचराश्रयत्वविषयत्वे तदप्रामाण्यप्रसङ्गात् / अज्ञानस्यानात्माश्रयत्वाभावात् अहमनुभवगोचरानात्मत्वस्य निरूपितत्वात् / तदुपहितचैतन्याश्रयत्वमज्ञानस्याहमज्ञ इत्यनुभवविषय इति चेत् / न, तदुपहित नित्यमुक्त ब्रह्मैव स्वाविद्यया संसरति स्वविद्यया मुच्यते इति सदृष्टान्तं मतान्तरमनु. वदति-अथेत्यादिना / “योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति" इत्यादिश्रुतौ वस्तुत इति पदाभावात् प्रतीयमानसंसारास्पर्शित्वमेव तदर्थः / स च जीवब्रह्मविभागानङ्गीकारे विरुध्येतेत्याह-तन्नेति / किं च ब्रह्मण एवाज्ञत्वादिमत्त्वे जगत्कारणस्य सर्वज्ञत्वपरश्रुतिपीडा स्यादित्याह-यः सर्गज्ञ इति / किं च चिन्मात्रस्याज्ञान किं स्वाभाविकमौपाधिकं वा ?, नोभयथाऽपीत्याहकिं चेत्यादिना / पूर्वोत्तहेतुद्वयमपि दूषयति-तमस्त्वमपीति / पटादाविति / तन्त्वाश्रितस्य पटस्य देशान्तरवर्तिवस्त्वावारकत्वेऽप्येकाश्रयविषयत्वाभावादित्यर्थः / जीवे तात्त्विकस्वरूपविषयाज्ञानस्यानुभवसिद्धत्वादेकाश्रयविषयत्वं तस्याऽवश्यकमिति समाधत्ते-अत्रोच्यत इति / तादृशस्वरूपे प्रमाणवैकल्यादेव संशयादि, न त्वज्ञानावृतत्वादित्याशय स्वप्रकाशस्य स्वतः संशयविरोधित्वादावरणाभावे संशयादि न स्यादित्याह-अनावृतेति / जीवस्य वेदान्तवेद्यमशनायाद्यतीतं स्वरूपमेव नास्ति कुतस्तद्विषयाज्ञानमित्याशक्य तस्य साक्षिविवेके निरूपितत्वान्मैवमित्याह-तादृगिति / यदुक्तमहमज्ञ इत्यहमर्थाश्रितमज्ञानमनुभूयत इति तत्राहमर्थस्य द्विरूपत्वाच्चिदंशस्यैवाज्ञानाश्रयत्वविषयोऽयमनुभव इत्याहअहमिति : जडांशस्यैवाज्ञानाश्रयत्वं तद्विषयत्वं च किं न स्यादित्यत आह-अहमनुभवेति /