SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ 196 सटीकाद्वैतदीपिकायाम् नाद्यः / मालिन्यादेर्दर्पणनिष्ठत्ववदविद्यारूपस्याविद्यावच्छिन्नत्वस्याविद्याप्रतिविम्बितत्वस्य कर्तृत्वादेर्वा बन्धस्याज्ञानाधर्मत्वात् / अविद्यास्तमयो मोक्ष इति मते अविद्याया बन्धत्वं, बन्धकत्वंवा, न तु बद्धत्वम् / न द्वितीयः विच्छेदादेरुपाधिकार्यस्य बिम्बे प्रतिबिम्बे च दर्शनात् / संसारस्थानादित्वेनोपाध्यकार्यत्वाच्च / न तृतीयचतुर्थी। दर्पणादावदृष्टेः। एवं बुद्धिरूपोपाधेरपि न प्रतिबिम्बपक्षपातित्वं तस्या बिम्बपक्षपातिजपाकुसुमस्थानीयत्वेन प्रतिबिम्बपक्षपात्यादर्शस्थानीयत्वाभावात् / अस्तु तहि चैतन्यमात्र संसारः, नित्यमुक्तत्वश्रुतिश्च बिम्बस्थानीयब्रह्मविषयेति चेत् / न अवच्छिन्नः प्रतिबिम्बो वा जीव इति मतद्वयेऽपि श्यामत्ववर्तुलत्वादीनां मुखमात्रमहाकाशयोरसत्त्वदर्शनेन तद्वत् चिन्मात्रे संसारायोगात् जीवेपि संसाराभावेन जीवेश्वरयोर्बन्धमुक्तिश्रुतिव्यवस्थाविरोधाच्च / अथ जीवो नावच्छिन्नचैतन्यं न वा प्रतिबिम्बितं किंतु ब्रह्मव स्वाविद्यया राजपुत्र इव व्याधगृहीतो व्याधभावनया संसरति, तत्वमादिवाक्यजन्यसाक्षा स्यादित्यभिप्रेत्याह-गगनेति ! एवं सिद्धान्तमतमनूध तन्निर करोति--न अज्ञान येति / चैत्रगताज्ञानेन मैत्रे भ्रमादर्शनादज्ञानं स्वाश्रय एव भ्रमजतकं तथा चाज्ञानाश्रयचिन्मात्रस्यैव बिम्बादिरूपत्वे बिम्बभूतेश्वरेऽपि तत्कायभ्रमादिः स्यादित्यर्थः / ननूक्तमुपाधेः प्रतिबिम्बपक्षपातित्वमित्याशक्य तदपि दुनिरूपमित्यभिप्रेत्य विकल्पयति-उपाधेरिति / आद्येऽज्ञानादेरज्ञानाधर्मत्वात् प्रतिभासनियमो न स्यादिति दूषयति-नाद्य इति / बन्धस्त्वज्ञानधर्म एवेत्याशङ्क्याह--अविद्येति / यदि बन्धोऽज्ञानधर्मः स्यात् तीज्ञानमेव बद्धं स्यात्ततश्च तन्निवृत्तिर्मोक्षो न भवेदित भावः / प्रतिबिम्ब एव स्वकार्यप्रतिभासकत्वपक्षो दर्पणादावज्ञाने चासंभवीति दूषयति-न द्वितीय इति / आदिपदेन बिम्बत्व. श्यामत्वादीनां वियदादीनां च परिग्रहः / जीवगतसंसारस्याग्न्यौषण्यवत्स्वाभाविकत्वात् तस्योपाधिकार्यत्वमप्यसिद्धमित्याह-ससारस्येति / स्वकार्यनिष्ठधर्मप्रतिभासकत्वं प्रतिविम्बं प्रति स्वविषयाच्छादकत्वं वेत्येतत्पक्षद्वयं निराकरोति -न तृतीयेति / अज्ञानस्य प्रतिबिम्बपक्षपातित्वाभावेऽप्यन्तःकरणस्य तदस्त्वित्याशङ्कय तदभाववत्त्वेन संमतजपाकुसमस्थानीयत्वाङ्गीकारात्तदयुक्तमित्याह-एव मिति / चिन्मात्रमेवाज्ञानाश्रयस्तत्कायंभ्रान्त्यादिरपि तस्यैव / न चैव "मन्यत्र धर्मादन्यत्राधर्मात्" 'योऽशनायापिपासे शोकं मोहम्" इत्यादिश्रुतिविरोधः, तस्या बिम्वभूतेश्वरविषयत्वादिति मतान्तरमनुवदति-अस्तु तौति / अस्मिन्मते किनुपाध्यवच्छिन्नो जीवः, उत तत्र चित्प्रतिबिम्बः ?; उभयथाऽप्यौराधिकधर्माणां चिन्मात्रेऽसंभव इति सदृष्टान्तमाह-न अवच्छिन्न इति / चिन्मात्रस्यैव संसारित्वे बिम्ववत् प्रतिविम्बात्मकजीवेऽपि तदभावात् 'तयारन्यः पिप्पलं स्वाद्वत्ति' इत्यादिश्रुतिविरोधश्च स्यादित्याह-जीवेsीति / वस्तुतो
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy