________________ द्वितीयः परिच्छेदः 195 वाच्यम / मरीचिकातोयेऽपि तद्देशस्थवक्षादेः प्रतिबिम्बभ्रमदर्शनात, अविद्याया अर्थक्रियाकारित्वेन ततो विलक्षणत्वाच्च / अविद्याया उपाधेराकाशाद्यात्मना परिणामे प्रतिबिम्बापायः स्यादिति चेत् / न, कार्यदशायामपि कारणस्वरूपानपायात् / न हि घटादिदशायां मृदादिस्वरूपमपैति, विशेषतश्च रजतादिभ्रमदशायामपि पुरोतिनि शुक्तिं न जानामीत्यनुभवादज्ञानस्य तदवस्थत्वात् / न च मुखप्रतिमुखानुगतमुखत्वातिरिक्तमुखमात्रव्यक्त्यन्तरस्येव जीवब्रह्मानुगतचित्वातिरिक्तचिन्मात्ररूपस्याभावात् कथं तस्याज्ञानाश्रयत्वमिति वाच्यम् / प्रतिबिम्बभ्रमे भेदमात्रस्यैव कल्पितत्वेन कल्पितभेदवच्चन्द्रद्वयस्वरूपभूततभेदाधिष्ठानचन्द्रव्यक्तिवत् जीवेश्वरस्वरूपभूततद्भेदनिमित्ताज्ञानाधिष्ठानचैतन्यव्यक्तरपि सत्वात् / ____ अन्यथा कल्पितभेदवच्चन्द्रयोरचन्द्रत्वानुभवप्रसङ्गात, व्यक्त्यतिरिक्तजातेरभावात् / जीवेश्वरयोश्चिद्रूपता न स्याच्चैन्यातिरिक्तचित्त्वजारभावात् / परमते गगनादिप्रतिबिम्बस्थले गगनत्वजातेरभावाच्चेति चेत् / न, अज्ञानस्य स्वाश्रय एव भ्रमजनकत्वनियमात अनादिभावरूपो न ज्ञाननिवर्त्य इति सामान्यव्याप्तेरज्ञानं ज्ञाननिवर्त्यमिति विशेषव्याप्तेर्बलीयस्त्ववदुपाधेः प्रतिबिम्बपक्षपातित्वमितिब्याप्तेरज्ञानं स्वाश्रये भ्रमं जनयतीति विशेषव्याप्तेर्बलवत्त्वात् / उपाधेः प्रतिबिम्बपक्षपातित्वमपि किं तत्र स्वधर्मप्रतिभासकत्वं, स्वकार्यप्रतिभासकत्वं वा, स्वकार्यष्ठिधर्मप्रतिभासकत्वं वा, प्रतिबिम्ब प्रति स्वविषयाच्छादकत्वं वा ? / दर्पणादिवदविद्यातिरिक्तदोषाजन्यतयाऽर्थक्रियाहेतुत्वात्सत्त्वगुणप्रयुक्तस्वाछ्यत्वाच्च प्रतिबिम्बोपाधित्वं युक्तमित्याह-अबिद्याया इति / अज्ञानस्याकाशादिरूपेण परिणामे पूर्वरूपस्य नाशात् तदा चित्प्रतिबिम्बो न स्यादिति शङ्कते-अविद्याया इति / हेत्वसिद्ध्यादूषयति-न कार्येति / अज्ञानस्य स्वकार्यसमये विशिप्यानुभूयमानत्वादपि न तत्स्वरूपापाय इत्याह-विशेषत इति / ननु बिम्बप्रतिबिम्बमुखानुगतनुखत्वातिरिक्त मुखमात्रस्य बिम्बादिभावात्पूर्णसत्त्वान्नुखमात्रसंबन्धित्वं दर्पणादेयुज्यते, अज्ञानस्य तु जीवब्रह्मभावरहितचिन्मात्रस्यानादिकालेऽसत्त्वात्तदाश्रितत्वमनुपपनन्नमिति, नेत्याह--न चेति / बिम्बादिभावस्य भेदस्य चानादित्वेऽपि मिथ्यात्वाद्वस्तुतः तद्रहितं तदधिष्ठानचिन्मात्रमावश्यकमिति सदृष्टान्तमाह--प्रतिबिम्बेति / ययोर्भेदः कल्पितः तयोस्तद्रहिततदधिष्ठानमात्रत्वाभावे बाधकमाह - न्यथेति / ___ कल्पितभेदवच्चन्द्रयोरधिष्ठानचन्द्राद् भेदेऽपि चन्द्रत्वजातिमत्त्वाच्चन्द्रत्वानभव इत्याशझ्याह-व्यक्तीति / जीवेश्वरयोरपि वस्तुतो भेदाधिष्ठानचिन्मात्र त्वाभावे जडत्वापत्तिरित्याह-जीवेश्वरयोरिति / चिद्भिन्नयोरपि चित्त्वजातिमत्त्वाच्चिद्रूपत्वमित्याशक्य चिद्व्यक्ते रेकत्वाच्चित्वजातिरेवायुक्तेत्याह-चैतन्येति / किं च बिम्बादिभेदभ्रमे बिम्बाद्यतिरिक्त तज्जातिमदेवाधिष्टानमिति नियमे परमते गगने प्रतिबिम्वभ्रमो न