________________ 194 सटीकाद्वैतदीपिकायाम् ध्यासोऽस्तीति चेत, न। तस्याविहाधीनत्वेनान्योन्याशयात, देहादावपि ज्ञातृत्वाध्याससंभवाच्च, बुद्ध्यवच्छिन्न एव तद्धर्माणां ज्ञातृत्वादीनामध्यासेन चिन्मात्रे तदभावाच्च / अन्यथा संसारस्य चिन्मात्राश्रयत्वप्रसङ्गात ब्रह्मापि संसारि स्यात् / विशेष्यविशिष्टभावस्यैव तन्त्रत्वात् / विशेष्यस्थमज्ञानं विशिष्टे जीवे संसारहेतुः तद्गततत्त्वबोधः विरुद्धश्चेति चेत, न। विशिष्टस्य ततोऽन्यत्वे जडतया संसारानाधारत्वात् / अनन्यत्वे च ब्रह्मव संसारि स्यात् / शुद्धचैतन्यस्यैवाविद्याश्रयत्वे तस्य च तत्कार्यविशिष्टतयाऽहमर्थे संसाराननुभवप्रसंगाच्च / देहबिशेष्याहंकारकर्तृत्वेन देहविशिष्टे भोक्तृत्वापाताच्च विशेष्यस्थमुक्तेः विशिष्टस्थसंसारविरोधित्वप्रसङ्गाच्च / एतेन विशेष्यविशिष्टयोरध्यस्तमैक्यं तन्त्रमिति प्रत्युक्तम् / ननुपाधेः प्रतिबिम्बपक्षपातस्वाभाव्याज्जीवे संसारः / न च मरुमरीचिकोदके आदित्यस्याप्रतिबिम्बवदारोपिताज्ञानेऽपि चैतन्यस्य प्रतिफलनं न स्यादिति ननु स्फटिकलौहित्यन्यायेन चिन्मात्रस्यानि भ्रान्त्याद्याश्रयत्वात्त नष्ठाज्ञानस्य तत्सामानाधिकरण्योपपत्तिरिति शङ्कते-चैतन्येऽपीति / चिन्मात्राश्रिताज्ञाने सिद्धे ततस्तत्र ज्ञातृत्वाद्यध्याससिद्धिः, तत्सिद्धौ च तत्समानाधिकरणाज्ञानसिद्धिरिति परस्पराश्रयता इति दूषयति--- न तस्येति / अज्ञानाध्यासस्य चि-मात्रेऽनादित्वान्नित्यसाक्षिमात्रभास्यत्वाच्चोक्तपरस्पराश्रयो न दोषायेत्याशक्याध्यासिकज्ञातृत्वाश्रयत्वेनाज्ञानाश्रयत्वेऽति कथमपि न ज्ञातृत्वादिसंभव इत्याह-बुद्धयवच्छिन्न इति / अज्ञानभ्रान् यादेश्चिन्मात्राश्रयत्वे तत्प्रयुक्तसंसारोऽपि तत्रैव स्यादित्याह-अन्यथेति / चैतन्यस्याज्ञानाश्रयत्वं न संसारित्वप्रयोजकं किं त्वज्ञानकार्याहङ्कारविशिष्टत्वम् / तच्च जीव एवेति न ब्रह्मणि संसारः / विशेष्यगताज्ञाननिवृत्तौ विशिष्टगतज्ञानमेव हेतुरिति न तन्निवृत्त्यनुपपत्तिरिति शङ्कते--विशेष्थेति / किं विशिष्टं विशेष्याद्भिन्न मुताभिन्नम् ? / उभयथाऽपि न युक्तमिति परिहरति-न विशिष्टस्येति / किं च चिन्मात्रस्याज्ञानाश्रयत्वे तत्रैव तत्कार्यस्याप्यध्यासात् तद्विशिष्टमपि तदेवेति तन्निष्ठसंसारोपि चिन्मात्रस्यैव स्यादित्यहमर्थे तदनुभवो न स्यादित्याह-शुद्धेति / विशेप्यविशिष्टभावस्तन्त्रमित्येतदतिप्रसङ्गेन दूषयति-देहेति / विशेष्यगताज्ञानाद्विशिष्टे संसारे तयोरध्यस्तमैक्यं प्रयोजकं, ततश्चाहमर्थेऽपि तदनुभवोपपत्तिरिति शङ्कामुक्तातिप्रसङ्गेन दूषयति एतेनेति / मुखमात्रसंबन्धिना दर्पणाधुपाधिना प्रतिबिम्ब मुखे एव श्यामत्वादिविकारदर्शनादुपाधेः प्रतिबिम्बपक्षपातित्वं स्वभावः। तथा च चिन्मात्राश्रितमज्ञानमपि स्वस्मिश्चित्प्रतिबिम्बस्वरूपजीव एव संसारहेतुर्न बिम्बात्मके ब्रह्मणीति शङ्कते–नन्विति / अज्ञाने चित्प्रतिबिम्ब एवाजुपपन्नः तस्यारोपितत्वेन मरीचितोयवत्प्रतिबिम्बो. पाधित्वायोगादित्याशङक्य दृष्टान्तासंप्रतिपत्त्या दूषयति--न चेत्यादिना / किंचाज्ञानस्य