________________ 200 सटीकाद्वैतदीपिकायाम् तस्य स्वभावसर्वज्ञत्वान्न मायावरणमित्यपि तुल्यम्।नचेश्वरस्याज्ञानाश्रयत्वे निरवद्यत्वश्रुतिव्याकोपः सर्वाधारे तस्मिन्सार्वज्ञयविरुद्धावद्यस्यैव व्यामोहादेः श्रुत्या निषिद्धत्वात् / अन्यथा 'मायिनं तु महेश्वरम्' 'मम माया" इत्यादिश्रुतिस्मृतिविरोधात्, मायाज्ञानाभेदात् मायाया अपि दोषत्वाच्च। यत्त्वज्ञानस्य चिन्मात्राश्रयत्वे बन्धोऽपि तत्रैव स्यान्न जीव इति, तन्न / अज्ञानाश्रयस्यैव जीवरूपत्वात् / न हि जीवेश्वरविभागानाक्रान्तं किं चिदिदानी चैतन्यमस्ति / ईश्वरे तु त्वन्मत इव बन्धककर्माभावात्संसारभ्रमहेत्वावरणाभावाहा न बन्धः / ननु धर्मिद्वये सति व्यवस्था युज्यते नकर्मिणीति चेत् / न यथा हि दर्पणाधुपाधिनैकस्मिन्नेव मुखे आरोपितभेदे प्रतिबिम्ब एव श्यामत्वादिसंबन्धो न बिम्बे, एवमज्ञानेनापि प्रतिबिम्बजीव एव बन्धो जायते न बिम्बे भ्रमविशेषस्य प्रतिबिम्ननयत्यमे पाधेः प्रतिबिंबपक्षपातित्वगिरोच्यते। ईश्वरेऽज्ञानलक्षणदोषाङ्गीकारे तस्य निरवद्यत्वश्रुतिविरोध इत्याशङ्ख्याज्ञानस्य जीवं प्रत्येव दोषत्वेनेश्वरं प्रत्यदोषत्वान्मैवमित्यभिप्रेत्याह-न चेश्वरस्येति / निरवद्यश्रुत्येश्वरेऽज्ञानस्वरूपस्यापि निषेधे बाधकमाह-अन्यथेति / न चोक्तश्रुत्यादिनेश्वरे मायासंबन्ध एव प्रतीयते न चाज्ञानसंबन्ध इत्याशक्य तयोरभेदस्योपपादितत्वादित्यभिप्रेत्याह-- मायेति / ननु मायिनमितीश्वरस्याज्ञानविषयत्वमेतोच्यते न तु तदाश्रयत्वमिति चेत् / न, तस्य स्वाश्रयाव्यामोहकत्वेनैव मायाशब्दार्थत्वात् जीवमात्राश्रितत्वे तदयोगादिति भावः। मायाऽविद्ययोर्भेदाङ्गीकारेणेश्वरस्य मायामात्राश्रयत्वाभ्युपगमेऽपि निरवद्यत्वश्रुतिविरोधस्तुल्य इत्यभिप्रेत्याह-मायाया इति / परोक्तंबाधकान्तरमनुवदति दूषयितुम् यत्त्विति / अज्ञानाश्रयचिन्मात्रस्यैव जीवभावेनावस्थाने जीवाश्रितसंसारस्याज्ञानसामानाधिकरण्यमक्षतमित्याह-तन्नेति / अविद्या दशायां जीवेशविभागानाक्रान्तचि मात्राप्रतीतेर्जीवेश्वरभिन्नं चिन्मात्रमेव नास्ति कुतस्तत्र संसार इत्याह-न हीति / अज्ञानाश्रयचिन्मात्रस्यैव जीवेशभावेनावस्थाने जीववदीश्वरेऽपि संसार: स्यादित्युक्तं परिहरति-ईश्वर इति / परमते जीवेशभेदस्य सत्त्वादुक्तव्यवस्था घटते, सिद्धान्ते तु तदभावात्सा न युक्तेति शङ्कतेनन्विति / सत एव भेदाद्विरुद्धधर्मव्यवस्थेत्यत्र निदर्शनाभावाद् व्यवस्थासमानसत्ताक एव भेदस्तत्प्रयोजक: सिद्धान्तेऽपि जीवेश्वरयोस्तादृशभेदाभ्युपगमात्तत एव तद्धर्माणां व्यवस्थोपपत्तिरिति सदृष्टान्तरमाह-न यथेति / दर्पणाद्युपाधेः प्रतिबिम्ब मुखे मालिन्यवक्रत्वाद्यनिष्टप्रतिभासप्रयोजकत्वदर्शनादुपाधेः प्रतिबिम्ब एवानिष्टप्रतिभासप्रयोजकत्वं प्रतिबिम्बपक्षपातित्वं ततश्चाज्ञानप्रयुक्ताज्ञत्वाद्यनिष्टभ्रमो जीव एव प्रतिबिम्बात्मके न त्वीश्वरे बिम्बात्मनीत्यभिप्रेत्याह- भ्रमविशेषस्येति / प्रतिबिम्बपक्षपातित्वशब्दस्यार्थान्तरमाह-अथ वेति /