________________ 190 सटीकाद्वैतदीपिकायाम् निषिध्य व्यावहारिकत्वं विधीयते इति चेत् / न हि तेन सत्त्वभेदो विधीयते किं तु गगनादिसाम्यमात्रम् शुक्तिरजतादिसाम्यं च निषिद्धयते। अविद्यातिरिक्तदोषाजन्यत्वात् / एतेनाज्ञानस्यानुमानादिवेद्यत्व आत्मवदनिवृत्तिप्रसङ्ग इति प्रत्त्युक्तम् / कल्पितस्यापि घटादितुल्यतया तदुपपत्तेः / आचार्यास्तु व्यावहारिकमप्यज्ञानं साक्षि पात्रप्रमेयम् / अनुमानादिभिस्तु न तत्स्वरूपसिद्धिः, कि तु तस्याभावव्यावृत्त्यादि बोध्यत इत्याहुः। न च नित्यनिषसाक्षिवेद्यत्वेऽज्ञानस्यात्मवत्परमार्थत्वापत्तिरिति वाच्यम् / मिथ्यारजतादौ व्यभिचारात् / अबाधितत्वस्यैव परमार्थत्वप्रयोजकत्वात्साक्षिणः स्वसंसृष्टार्थमात्रप्रकाशस्यासद्विलक्षणतामात्रे निमित्तत्वात् / न चोक्तानुमाने अभावव्यावृत्तिर्न प्रतीयत इति वाच्यम् / केषुचिदनुमानेषु स्वप्रागभावव्यतिरिक्तत्वादिशेषणेनान्यत्र च विषयपरिशोधकतर्केण तदवगमात् / न चाभावव्यावृत्तिरित्यासत्त्वनिवृत्तिरिति एवं चेदेतच्चाज्ञानं ठगा हारिकं न प्रातिभासिकमिति सत्त्वभेदः कथमुक्तः पूर्वमिति शङ्कते-क तहीति / तदर्थानबबोधबिजृम्भितमेतच्चोद्यमिति परिद्धरति--न हि तेनेति / ब्यावहारिक मत्यनेन गगनादिसाम्यं विधीयते न प्रातिभासिकमिति शुक्तिरजतादि साम्य निषिध्यत इत्यर्थः। उभयत्रापि हेतमाह-अविद्यति / अविद्याया वियदादिसमानत्वात् परोक्तचोद्यमयुक्तमित्याह-एतेनेति / विवरणाचायँरज्ञानस्यप्रमाणवेद्यत्वमनङ्गीकृत्यैवैतच्चोध निरस्तम् / तदाह-आचार्या इति / तैरेवाज्ञानेऽनुमानादीनां प्रमाणानामप्युपन्यतत्वात्कथं तत्सामिा गम्पमित्यत आह-अ मानादिभिस्त्विति / अनादित्व ज्ञाननिवर्त्यत्वे अभावावृत्त्यादीत्यादिपदार्थः / अज्ञान परमार्थसत् दोषाजन्यज्ञानगम्यत्वादात्मवदित्याशङ्का व्यभिचारेण दूषयति-न चेति / न च शुक्तिरजतादेर्दोषजन्याविद्यावत्तविषय-वान्न व्यभिचार इति वाच्यम् / तस्य सवादिवदनावतसाक्षिण्यध्यासेन तत्र तदाकारवृत्तिकृतचिदुपरागावरणभङ्गयोरसंभवेन तस्या अप्रामाणिकत्वात् / रजतसंस्कारस्यापि यद्वृत्त्यवच्छिनचैतन्ये द् भासत इनि कथितन्यायेनेदमाकारवृत्ति नाशादेव संभवादित्यादि तृतीये वक्ष्यत इति भावः / अबाधितत्वेन सोपाधिकतामप्पाह--अबाधितत्वस्येति / अज्ञानस्या परमार्थत्वे शशशृङ्गवत्तस्य राक्षिभास्यत्वानुपपत्तिरित्याशङ्क्य असद्वैलक्षण्यभात्रेणापि तदुपपत्तेमॆवमित्याह-साक्षिण इति / नतु ज्ञानातिरिक्तप्रत्यक्षनिवतकमित्यादिसाध्येष्वज्ञानेऽभावव्यावृत्तेरप्रतीतेः तस्याः कथमनुमान' मेयत्वमिति चेत् न / आचार्यानुमाने त एव तत्प्रतीतेः। अन्यत्रा पक्षादिविशेषणमहिम्ना पर्यनसानात्तत्प्रतीतेरिह - चेत्यादिना। अज्ञानस्याभावव्यावृत्तिरनुमानादिभिर्बोध्यत इत्याचार्यवाक्येऽभाव पावृत्तिपदेनासत्त्वनिवृत्तिरुच्यत इति कैश्रित्प्रतिपन्नं तद् दूषयति-न चाभावेति / तत इति / उक्तान मानादित्यर्थः / अनुमानान्मुखतोऽप्रतीतावपि तत्तात्पर्य