________________ द्वितीयः परिच्छेदः 189 घटादेः स्वोचितार्थक्रिया शुक्तिरजतादेस्तु तत्रज्जन्यत्वेन तदभाव इति व्यवस्था। न च बौद्धस्येवार्थक्रियाकारित्वं किन्तु, विद्यमानत्वप्रयोज्याऽर्थक्रिया विद्यमानता च न सत्त्वम् / ___ ननु शुक्तिरजतस्य घटादितुल्यत्वे कथमविद्यातिरिक्तदोषजन्यत्वमिति चेत। न, क्वचित्कश्चिद् दोष इत्यनेनोक्तोत्तरत्वात् / परमते च रजतज्ञानस्य सत्त्वेऽपि तस्य दोषजन्यत्ववद्यथार्थप्रवृत्त्यजनकत्ववच्च रजतस्याप्यविरोधात् / न चैतदेव प्रातीतिकसत्त्वं तदितरज्जडत्वं व्यावहारिकसत्त्वमिति वाच्यम् / सद्विलक्षणस्याप्येतत्संभवेन सत्त्वभेदस्याप्रयोजकत्वात् / केचित्त्वविद्यातिरिक्तदोषाजन्यावच्छिन्नसत्त्वं स्वोचितव्यवहारोपयुक्तत्वाद् व्यावहारिकं सत्त्वम्, अविद्यातिरिक्तदोषजन्या. वच्छिन्नसत्त्वं प्रातीतिकसत्त्वम् / तस्य प्रतीतिमात्रकाल एव विद्यमानत्वात् / सत्त्वं चात्मसत्तैवेत्याहुः / तत्त्वविरुद्धम् / जडसत्त्वयोविशेषाभावात् / तस्मान्न जडे सत्त्वभेदः। प्रातीतिकव्यावहारिकव्यवहारस्तु वृद्धा / सत्त्वाभेदेऽप्यविद्यातिरिक्तदोषजन्यतदजन्यावच्छिन्नसत्ताकत्वेनेति द्रष्टव्यम् / कथं तीज्ञानस्य प्रातीतिकत्वं रजतादेरबिद्यातिरिक्तदोषजन्यत्वान्नार्थक्रियेत्युक्तं तत्र सत्त्वान्तराभावे तदेवानुपपन्नमिति शङ्कने -नन्विति / सत्त्वान्तरास्तित्वमतेऽप्येकसत्ताकानामप्यन्यान्यदोषजन्यत्वस्यावश्यकत्वान्नेयमनुपपत्तिरित्याह-न क्वचिदिति / सत्त्वभेदाभावेऽपि दोषबिशेषजन्यत्व' स्बोचितार्थक्रियाऽ भावश्च परमतेऽपि दृष्ट इति न तदर्थं सच्चान्तरं कल्प्यमित्याह-परमते चेति / नन्वविद्यातिरिक्तदोषजन्यत्वतदजन्यत्वयोरेव सत्त्वान्तरलक्षणत्वान्न तदभाव इत्यपि न शङ्कनीयम् / अधिष्ठानसत्तयैव सद्बुद्धिगोचराणा पृथक् सत्त्वाभावेऽपि घटत्वादिवदनयोर्यवस्थोपपत्तेः, सत्त्वात्मकताकल्पनाया अदृष्टार्थत्वादित्याह-न चैतदेवेत्यादिना। नन्वेवं सति कथमाचा3: पारमार्थिकव्यावहारिकप्रातीतिकभेदेन सत्त्ववैविध्यमुक्तमित्याशवय तदभिप्रायमाह -केचित्त्विति / अविद्यातिरिक्तदोषाजन्यावच्छिन्नसत्त्वं ब्यावहारिकपदप्रवृत्तिनिमित्तमाह-स्वोचितेति / सत्त्वान्तरे प्रातीतिकपदप्रवृत्तिनिमित्तमाह-तस्येति / आत्मसत्त्वातिरेकेणाविद्यातिरिक्तदोषाजन्यावच्छिन्नतज्जन्यावच्छिन्नसत्त्वान्तराभ्युपगमे न विवाद इत्याशक्यात्मसत्त्वमेव तत्तदवच्छिन्नं तथोक्तं, न तदतिरिक्तं तदित्याहसत्त्वं चेति / ननूक्तरीत्यापि जडे सत्त्वविशेषसिद्धिरित्याशङ्क्यावच्छेदकजडस्वरूपविशेषब्यतिरेकेण सत्त्वे न विशेष इत्याह-तत्त्वविरुद्ध मिति / सत्त्वभेदनिराकरणमुपसंहरति-- तस्मादिति / ___ कथ तहि वृद्धानो तत्र शुक्तिरजतादौ प्रातीतिकत्वब्यवहारः, घटादौ च ब्यावहारिकत्वब्यवहार इत्याशझ्याह--प्रातीति केति /