SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 188 सटीकाद्वैतदीपिकायाम् दोषत्वात् / न हि मिथ्याभूतस्य सर्वस्य काचादिजन्यत्वमिति नियमोऽस्ति, क्वचित्कश्चिदोष इत्यभ्युपगमात् / न च शक्तिरजतस्य वन्ह्यादेरिवानुमितिगोचरत्वेऽनुमितवन्हाविव तदथिनः शक्तिरजतेऽपि प्रवृत्तिः स्यादिति वाच्यम् / याबद्वाधं स्वदृष्टे तस्मिन्प्रवृत्तेरिष्टत्वात् / अन्यदृष्टे चान्यस्याभावनिश्चयात् प्रवृत्तेरभावात् / न चैवमेकस्य शुक्तौ रजतानुभवकालेऽपरस्य तत्र तदभावानुभवोऽप्रमा स्यादिति वाच्यम् / वैशेषिकादिमते एकस्य द्वित्वानुभवकालेऽपरस्य तत्र तदभावानुभववत् प्रातीतिकरजतवादे वा परस्य तदभावानुभववत् स्वीयतदमावविषयतया प्रामाण्योपपत्तेः / न चैवं स्वसत्ताकाले समीचीनरजतस्येव शुक्तिरजतस्यापि स्वोचितार्थक्रियाप्रसङ्गः। तस्य ज्ञायमानत्वप्रयोज्यसखादिकार्यस्य ध्वंसस्य बन्धस्य च दृष्टत्वात्, तदतिरिक्तार्थक्रियाकाले चाधिष्ठानज्ञानेन वाऽन्येव वा निवृत्तस्य तदयोगात्, विनष्टघटवत् / किं च सत्त्वाविशेषेऽप्यविद्यातिरिक्तदोषाजन्यत्वेन यथा न परस्परकार्ये हेतुत्वम्, एवमविद्याकार्येऽपि न हेतुतेत्यर्थः / रजतादेः पूर्वमनुमानगोचरत्वमुक्तम् / तत्र बाधकमाशङक्य' परिहरति-न चेत्यादिना / __ननु घटरजतयोः सत्त्वभेदाभावे यथैकेन घटवत्तया निश्चिते भूतलेऽपरस्य तत्र तदभावानुभवोऽप्रमा, एवमेकेन रजतवत्तया निश्चिने शुक्तयादावपरस्य तदभावानुभवोऽप्रमा स्यादिति चेत् न / शुक्तिरजतादेः सत्त्वभेदाभावेऽपि परमते द्वित्त्वादिवत् प्रातीतिकसत्त्वान्तरमस्तीति मते तदाश्रयवच्च प्रतिपुरुषं व्यवस्थितत्वात् / तदनुपलब्ध्या तदभावस्यैव प्रमीयमाणत्वादित्याह-न चैवमेक येत्यादिना। ___ सत्त्वभेदाभावे बाधकान्तरमाशयापवदति-न चैवमिति / किं स्वज्ञानाधीनं कार्य स्वोचितार्थक्रिया उत स्वस्वरूपाधीनम् ?, उभयमपीष्टमित्याह-तस्येति / ननु कटकमुकुटक्रयविक्रयादिकायमेव रजतोचितार्थक्रिया, तच्छुक्तिरजतस्य सत्त्वभेदाभावे स्यादित्यत आह-तद तरिक्तेति / अन्येन वेति / कारणनाशेन वा भ्रमान्तरेण वेत्यर्थः / समीचीनरजतस्य ब्रह्मज्ञानेतराबाध्यत्वात् इदानीमन्यस्यापि तन्नशहेतोरभावात्ततः कटकादिकं जायते, शुक्तिरजतं तु नैवमिति न ततस्तदुत्पत्तिरित्यर्थः / किं च सर्वस्य जडस्याधिष्ठानसत्तातिरिक्तसत्त्वाभावेऽपि कस्यचिद्दोषविशेषाजन्यस्वरूपविशेषादर्थक्रिया, कस्यचित्तु दोषविशेषजन्यस्वरूपविशेषान्नार्थक्रियेति च व्यवस्था घटते इत्याह-कि चेति / नन्वर्थक्रियाकारित्वं व्यवस्थितं चेत्तहिं तदेव तस्य सत्त्वान्तरमित्याशङ्क्य तथात्वे क्षणिकवादप्रसङ्गान्न तत्सत्त्वमित्याह-न चेति / तहि तत्प्रयोजव तया सत्त्वान्तरमावश्यकमित्याशक्य पूर्णक्षणे विद्यमानस्वरूपविशेषेणैव तदुपपत्तेर्न तदर्थमपि तदपेक्षेत्याह-किं त्विति / बिद्यमानत्वमेव तहि सत्त्वान्तरमित्याशक्य स्वाधिकरणसंसर्गित्वमात्रस्यैव तत्त्वात्तस्य शुक्तिरजतसाधारणत्वान्मैवमित्याह-विद्यमानता चेति /
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy