________________ द्वितीयः परिच्छेदः 17 व्यावहारिकपरिणाम्यज्ञानं व्यावहारिकं प्रातीतिकपरिणाम्यज्ञानं च प्रातीतिकमिति चेत् / न, एकाज्ञानवादे तदनुपपत्तः / ब्रह्म न जानामि' 'शुक्तिं न जानामि इत्यनुभूयमानाज्ञानयोः सत्ताभेदाननुभवाच्च / अधिष्ठानात्मतत्तयव निखिलप्रपञ्चकृतसद्वयवहारोपपत्तौं तदतिरिक्तसत्ताभेदकल्पने गौर वात, प्रमाणाभावाच्च / न चैवं शुक्तिरजतादेरिव घटादेरपि नियमेव प्रतीत्या भवितव्यम, अविशेषादिति वाच्यम् / सत्त्वाविशेषेऽपि प्रमातृव्यवधानादेव तदप्रतीत्युपपत्तेः / न च शुक्तिरजतादेरपि घटादिवदिन्द्रियग्राह्यत्वप्रसङ्गः। स्वविषयज्ञानात्पूर्वमसतस्तस्य तज्जनकेन्द्रियासनिकृष्टत्वेन तदगोचरत्वात् / अनुमित्यादिग्राह्यत्वं च घटादिना शुक्तिरजतस्यापि समानम् / न चैवं शुक्तिरजतस्य घटादिसत्तात्तुल्यसत्ताकत्वे 'दुष्टाक्षरेव गृह्यते' इति नियमोऽनुपपन्न इति वाच्यम् / न हि प्रागविद्यमानस्य रजतस्य ग्रहणे दोषस्योपयोगः येनायं दोषो भवेत, किं तु मिथ्यारजतस्योत्पत्तौ / न चैवं घटादेरुत्पत्तावपि दोषो हेतुः स्यादिति वाच्यम् / तत्राप्यविद्याया एव दोषत्वात् / अविद्या च ब्रह्मस्वरूपप्रकाशाच्छादकत्वाद्विपरीतकार्यजनकत्वाच्च ब्रह्मणि दोषः / काचादेरप्यनेन रूपेणव दूषयति-एकाज्ञान इति / द्वितीयेऽज्ञानगतसत्त्वभेदे मानाभाव (त् तदङ्गीकारे गौरवाच्च नोक्तव्यवस्थेत्याह-ब्रह्मेति / अत्र चार्थो गौरवम् / ननु कार्यगतसत्त्वभेदानुपपत्त्या कारणेऽपि सत्त्वभेद: कल्प्यते इत्याशक्य कार्येप्युक्तहेतुभ्यां स नास्तीत्याह -अधिष्ठानेति / शुक्तिरजतघटयोः सत्त्वभेदाभावे रजतवदेव घटादेरप्यज्ञातसत्त्वां न स्यादिति न वाच्यम् / घटादेरावृतचैतन्येऽध्यस्तत्वेन यावदनावृतप्रमातृचेतन्यतादात्म्यमज्ञातत्वोपपत्तेरित्याहन चैवमित्यादिना / न च घटादेरावृतपैतन्याध्यास एव सत्त्वभेदप्रयुक्त इति वाच्यम् / दुःखादौ तदभावादिति भावः। ___ रजतादेघटादितः सत्त्वभेदाभावे तद्वदेव मानग्राह्यला स्यादित्याशक्य किमिन्द्रियग्राह्यत्वामनुमानादिग्राह्यलां ना ? / आउ म प नमित्याह-न चेति / - द्वितीयमिष्टमित्याह-अनुमित्यादीति / ननु शुक्तिरजतादिग्रहो नियमेन दोषापेक्षः, घटादिग्रहस्तू नैवमित्येतत्त्त्व भेदं विनाऽनुपपन्नमिति चेत्, न / दोषस्य रजत धु त्पत्तावेवोपयुक्तत्वेन सद्ग्रहस्यापि तदनपेक्षत्वादित्याह-न चैवमित्यादिना / तर्हि घटादेरपि रजतादिवघोषजन्यत्वं 'यात्सत्त्वविशेषाभावादिति न शङ्कनोयमित्याह - न चैवमिति / किं घटादेर्दोषजन्यत्वमात्रमापाद्यते उत काचादिरूपदोषजन्यत्वम् ? / आद्यस्त्विष्ट इत्याह-तत्रापीति / अविद्याया उपादानत्वात्कथं दोषत्वमित्यत आह-अविद्या चेति / नन्वनुपादानस्यैव काचादेर्दोषत्वं दृष्टमित्याशक्य न तस्यानुपादानत्वं दोषत्वे प्रयोजकम् अतिप्रसङ्गात्;क त्वधि निप्रतिभासप्रतिबन्धकत्वादिकमेव / तद् अविद्यायामपि तुल्यमित्याह-काचादेरति / द्वितीयं दूषयति-न हीति / काचकामलपित्तादीनां