SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ 186 सटीकाद्वैतदीपिकायाम् यथार्थज्ञानस्य प्रमाणत्वे शुक्तिरजतादिज्ञानस्यापि प्रमाणत्वात् / अबाधितज्ञानस्य प्रमाणत्वे बियदादिज्ञानस्याप्यप्रभाणत्वात् / चक्षुरादिजन्यज्ञानस्य प्रमाणत्वे सुखादौ तन्न स्यात् / नापि प्रतीतिमात्रसत्ताकं प्रातीतिकं तद्व्यतिरिक्तं व्यावहारिकम् / वृत्तेः प्रतीतित्वेऽसंभवात् / न हि वृत्तिरेव रजतादेः सत्ता / अधिष्ठानचैतन्यं चेद्वियदादेरपि तुल्यम। वियदादिसत्ताया अपि चैतन्यमात्रत्वात् : नाप्यज्ञातचैतन्यावच्छेदकत्वं व्यावहारिकत्वं, तदन्यत्प्रातीतिकम् / सुखादावव्या. प्त्यतिव्याप्तेः / नापि ब्रह्मज्ञानातिरिक्तज्ञानाबाध्यं व्यावहारिक, तादशज्ञानबाध्यं प्रातीतिकम् / स्वप्नादाबुक्तदोषात् / नाप्यविद्याया व्यावहारिकत्वे मानम् / न चाज्ञानं व्यावहारिकम् उपादानत्वात्, तन्त्वादिवदिति वाच्यम्। अविद्याया व्यावहारिकत्वे प्रातीतिकरजताद्युपादानत्वानुपपत्तिलक्षणप्रतिकूलतर्कपराहतत्वात् / तन्त्वादावपि तदसिद्धेश्चेति / वहारिकत्वादिनिर्वचनम् ___ उच्यते / प्राततिकत्वं व्यावहारिकत्वमिति च न सत्त्वभेदः / सर्वस्यापि जडस्याऽऽत्मसत्तामात्रसत्ताकत्वात् / तस्याश्चैकरूपत्वात् / अन्यथा व्यावहारिकत्वप्रातोतिकत्वान्यतरस्वभावाज्ञानस्य स्वविलक्षणसत्ताककार्यपरिणामित्वासंभवात् / किं यत्र यद्विद्यते तत्र तद्विषयज्ञानं प्रमाणम्, उताबाधितार्थज्ञानं, किं वा चक्षरादिजन्यज्ञानम् ? न सर्वथाऽपि, आद्य ऽतिव्याप्तः, इतरयोस्त्व पातेरिति क्रमेणाहयथार्थेत्यादिना / नापि प्रतीतिमात्रसत्ताकमित्यारभ्य स्वागदावुक्तदोषादित्यन्तो ग्रन्थः स्पष्टार्थः / एवं व्यावहारिकत्वादिलक्षणं निराकृत्याविद्याया व्यावहारिकत्वे मानमपि निराकरोति पूर्ववादी-नाप्यविद्याया इति / तत्र संभावितं मानं दूषयति -न चेत्यादिना / परिणामस्य परिणामिसमसत्ताकवनियमात् अविद्याया व्यावहारिकत्वे तत्परिणामस्य रजतादेरपि व्यावहारिकत्वापातादिदमनुमानमयुक्तमित्यर्यः / व्यावहारिकत्वस्य दुनिरूपत्वाद् दृष्टान्तः साध्यविकलश्चेत्याह-तन्त्वादाविति / ___अधिष्ठानसत्तातिरेकेण जडे सत्त्वान्तरानभ्युपगमात्तत्र लक्षणाद्यभावो न दोषायेति सिद्धान्तयति-उच्यत इति / प्रातीतिकत्वादिसत्त्वान्तरमप्यात्मसत्तवेत्याशङ्क्याह-तस्याश्चेति / आत्मनि बाधायोग्यतातिरिक्तसत्त्वाभावादित्यर्थः। अज्ञानादौ सत्त्वान्तराभ्युपगमे बाधकमाहअन्यथेति / किं सर्गमज्ञानमेकसत्ताकम्, उत किंचिद्व्यावहारिकसत्ताकं, किंचित्प्रातिभासिकसत्ताकम् ? / आद्ये ब्रह्माज्ञानाद्व्यावहारिक कार्यशुक्तयाद्यज्ञानात्प्रातीतिकमिति गेषम्यं न स्यात्, कारणे विशेषाभावादित्यर्थः / द्वितीयं शङ्कते-व्यावहारिकेति / किमेतन्मूलाज्ञानमेव रजतायुपादानमिति मते उतावस्थाज्ञानं तदुपादानमिति मते ? / आद्यं
SR No.032853
Book TitleAdwait Dipika Part 02
Original Sutra AuthorN/A
AuthorS Subramanya Shastri
PublisherSampurnand Sanskrit Vishvavidyalaya
Publication Year1984
Total Pages486
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy